________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कः प्रजापतिरुद्दिष्टये को वायुरभिधीयते । कः शब्दः स्वर्गमाख्याति क इत्यात्मा मतः क्वचित् सलिलं कमिति ज्ञेयं शिरः कमिति चोच्यते । देवाननिमिषानाहुर्मत्स्याननिमिषांस्तथा अग्निश्च वर्हिणः चैव वृक्षः कुक्कुट एव च । शिखिनोऽभिहिताः शस्त्रः पृथुकश्च मतः शिखी हंसो नारायणः प्रोक्तः क्वचिद्धंसो दिवाकरः । अश्वश्वापि स्मृतो हंसो हंसश्चापि विहंगमः सारसस्सरसिजेन्द्वोः पतत्र्यपि च सारसः । राजाऽपि नृपतिर्ज्ञेयो राजा चोक्तो निशाकरः विभावसुर्हुताशः स्याच्छ्वेतच्छत्रं क्वचिद्भवेत् । हिमारातिः स्मृतो वह्निः हिमारातिश्च भास्करः धनञ्जयोऽग्निर्व्याख्यातो पार्थश्चापि धनञ्जयः । बीभत्सश्च मतः पार्थो बीभत्सो विकृतः स्मृतः अग्निर्विरोचनः प्रोक्तो भास्करस्तु विरोचनः । विरोचनश्च चन्द्रः स्यात्क्वचिद्दैत्यो विरोचनः पाञ्चजन्यः क्वचिद्वह्निः क्वचिच्छडो निगद्यते । कम्बुश्च गदितः शङ्खः कम्बुरिष्टश्च कुञ्जरः भास्करोऽग्निः समुद्दिष्टः सहस्रांशुरपि क्वचित् । पतङ्गो दिनकृद् ज्ञेयः पतङ्गः शलभः स्मृतः कौशिको देवराजः स्यादुलूकश्चापि कौशिकः । शम्भुर्ब्रह्मा च विष्णुश्च शम्भुश्चैव महेश्वरः वृषकेतुर्मतः शङ्कुः शङ्कुः कील इहोच्यते । जम्बुको वरुणो ज्ञेयः शृगालश्चापि जम्बुकः
३२४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३ ॥
11 8 11
॥ ५॥
॥ ६ ॥
॥ ७ ॥
112 11
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥