________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३२॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥३६॥
॥ ३७॥
प्रधानशृङ्गलाशूलभूषापुण्ड्रप्रभावना । ध्वजलक्ष्मतुरङ्गेषु, ललामो नवसु स्मृतः आकृतावक्षरे रूपे, ब्राह्मणादिषु जातिषु । माल्यानुलेपने चैव, वर्णः षट्सु निगद्यते आकारादावुदात्तादौ, षड्जादौ निस्वने स्वरः । समयाचारसिद्धान्त-कालेषु समयः स्मृतः तन्त्रं प्रधाने सिद्धान्ते सैन्यं तन्तौ परिच्छिदे । सत्त्वमोजसि सत्तायामुत्साहे स्थेम्नि जन्तुषु रूपादौ तन्तुषु ज्याया अप्रधाने नये गुणः । ज्ञानचारित्रमोक्षात्मश्रुतिषु ब्रह्मवाग्वरा अवकाशे क्षणे वस्त्रे, बहिर्योगे व्यतिक्रमे । मध्येऽन्त:करणे रन्ध्रे, विशेषे विरहेऽन्तरम् हेतौ निदर्शनं प्रश्ने स्तुतौ कण्ठसमीकृतौ । आनन्तर्येऽधिकारार्थे, माङ्गल्ये चाथ इष्यते हेतावेवं प्रकारादौ व्यवच्छेदे विपर्यये। प्रादुर्भावे समाप्तौ च इति शब्दः प्रकीर्तितः धर्मो धनुष्यहिंसादावुत्पादादावये नये । द्रव्यं क्रियाश्रये वित्ते, जीवादौ दारुवैकृते मूर्तिमत्सु पदार्थेषु, संसारिण्यपि पुद्गलः । अकर्मकर्मनोकर्मजातिभेदेषु वर्गणा ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । वैराग्यस्यावबोधस्य षण्णां भग इति स्मृतः प्राहुः कैवल्यमार्हन्त्ये विविक्ते निर्वृत्तावपि । लब्धिः केवलबोधादाविष्टाप्तौ नियतौ श्रियाम्
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
| ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
૨૬
For Private And Personal Use Only