SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। १२० ॥ ।। १२१ ॥ ।। १२२॥ ॥ १२३॥ ॥१२४ ॥ ॥ १२५ ॥ मेखला रसना काञ्ची, हेमपर्यायसूत्रकम् । श्रोणीबिम्बं कटिसूत्रं, मानसूत्रमिवाहितम् मदिरां मद्यमैरेयं, सीधुं कादम्बरीमिराम् । प्रसन्नां वारुणी हालां, मधुवारां सुरां विदुः शुण्डाऽऽसवस्तद्विधायी, शौण्डो गद्येत मद्यपः । शक्तोऽक्षयूतपानेषु, विचित्रा शब्दपद्धति: सपियङ्गवीनाज्यं, दुग्धं क्षीराऽमृतं पयः । उदश्विन्मथितं तक्र, कालशेयं पिबेद् गुरुः प्रायो वयो दशाऽनेहा, पूर्ण यौवनिकं विदुः । तारुण्यं यौवनं चान्त्यो, वार्डीन: स्थविरो मतः वंशोऽन्वयोऽन्ववाय: स्या-दाम्नायः सन्ततिः कुलम् । ओघो वर्गश्च सन्तानः, काव्यमेव कवेः स्थितिः हंसो मरालश्चकाङ्गो हंसवाहः सनातनः । वरटा वारला हंसी, कोक ईहामृगो वृकः मयूरो बर्हिणः केकी, शिखी प्रावृषिकस्तथा । नीलकण्ठः कलापी च, शिखण्डी तत्पतिर्मुह: हरिणो मृगः पृषत-स्तदङ्कः शर्वरीकरः । खमिन्द्रियं हृषीकं च, स्रोतोऽक्षं करणं विदुः पन्नगोऽहिविषधरो, लेलिहानो भुजङ्गमः । नागोरगौ फणी सर्प-स्तवैरी विनतात्मजः सुपर्णो गरुडस्ताक्ष्यो, गरुत्मान् शकुनीश्वरः । इन्द्रजिन्मन्त्रपूतात्मा, वैनतेयो विषक्षयः पुण्यं भाग्यं च सुकृतं, भागधेयं च सत्कृतम् । अघमंहश्च दुरितं, पाप्मा पापं च किल्बिषम् ॥ १२६ ॥ ॥ १२७॥ ॥ १२८॥ ॥ १२९ ।। ॥ १३० ॥ ૨૮૯ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy