________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०८॥
॥ १०९॥
॥ ११०॥
॥१११ ॥
॥ ११२ ॥
॥ ११३॥
प्रतीतं संस्तुतं लब्धं, दृष्टं परिचितं स्मृतम् । संस्थितं दशमीस्थं च, परासुं च मृतं विदुः खेदो द्वेषोऽप्यमर्षश्च, रुट कोपक्रोधमन्यवः । हर्षः प्रमोदः प्रमदो, मुत्तोषाऽऽनन्द उत्सव: कृपाऽनुकम्पाऽनुकोशोऽहन्तोक्तिः करुणा दया। शेमुषी धिषणा प्रज्ञा, मनीषा धीस्तथाऽऽशयः प्राज्ञो मेधादिमान् विद्वा-नभिरूपो विचक्षणः । पण्डितः सुरिराचार्यो, वाग्मी नैयायिकः स्मृतः पारिषद्यो बुधः सभ्यः, सदस्यः सन् सभोचितः । आस्थानाधिपती राजा, राजसूयो नृपक्रतुः विष्टरं मल्लिकां पीठ-मासन्दीमासनं विदुः । विष्टपं भुवनं लोको, जगत्तस्य पतिजिनः सर्वज्ञो वीतरागोऽर्हन् केवली धर्मचक्रभृत् । तीर्थङ्करस्तीर्थकर-स्तीर्थकृद् दिव्यवाक्पतिः वर्षीयान् वृषभो ज्यायान्, पुरुषाद्यः प्रजापतिः । ऐक्ष्वाकः काश्यपो ब्रह्मा, गौतमो नाभिजोऽग्रजः सन्मतिर्महतिर्वीरो, महावीरोऽन्त्यकाश्यपः । ज्ञातान्वयो वर्धमानो, यत्तीर्थमिह साम्प्रतम् चेलं निवसनं वास-श्चीरमम्बरमंशुकम्। वस्त्राद्यन्तदिगाद्यादि-संज्ञितो वृषभेश्वरः कुकुमं रुधिरं रक्तं कस्तूरी मृगनाभिजा। कर्पूरं घनसारं च, हिमं सेवेत पुण्यवान् समालम्भोऽङ्गरागश्च, प्रसाधनविलेपनम् । भूषणाऽऽभरणं रुच्यं, माल्यं मालागुणस्रजः
॥ ११४॥
॥ ११५ ॥
॥ ११६॥
॥ ११७॥
॥ ११८ ॥
।। ११९ ॥
૨૮૮
For Private And Personal Use Only