________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२ ॥
॥१४॥
॥ १५ ॥
॥ १६ ॥
॥ १७॥
तत्पर्याय-चरो ज्ञेयो, हरिर्बलिमुखः कपिः । वानरः प्लवगश्चैव, गोलाङ्गेलोऽथ मर्कटः विपिनं गहनं कक्ष-मरण्यं काननं वनम् । कान्तारमटवी दुर्गं, तच्चरः स्याद् वनेचरः पुलिन्द: शबरो दस्यु-निषादो व्याधलुब्धकौ। धानुष्कोऽथ किरातश्च, सोऽरण्यानीचरः स्मृतः वारि कं पयोऽम्भोऽम्बु, पाथोऽर्णः सलिलं जलम् । शरं वनं कुशं नीरं, तोयं जीवनमविषम् तत्पर्याय-चरो मत्स्य-स्तत्पर्याय-प्रदो घनः । तत्पर्यायोद्भवं पद्म, तत्पर्याय-धिरम्बुधिः पृथुरोमा षडक्षीणो, यादो वैसारिणो झषः । विसारी शफरो मीनः, पाठीनोऽनिमिषस्तिमिः घनाघनो घनो मेघो, जीमूतोऽभ्रं बलाहकः । पर्जन्यो मुदिरो नभ्राट् शम्पा सौदामनी तडित् आकालिकी क्षणरुचि-विद्युत् तत्-पतिरम्बुदः। निर्घातमशनिर्वज-मुल्काशब्दं च योजयेत् जम्बाल: कर्दमः पङ्क-स्तज्जं तामरसं विदुः । कमलं नलिनं पद्मं, सरोजं सरसीरुहम् खरदण्डं कोकनदं, पुण्डरीकं महोत्पलम् । इन्दीवरमरविन्दं, शतपत्रं च पुष्करम् स्यादुत्पलं कुवलय-मथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन्, सिते कुमुदकैरवे तद्-वती बिसिनी ज्ञेया, व्रततिर्वल्लरी लता। वल्लीनामानि योज्यानि, वारिधिर्वर्ण्यतेऽधुना
॥ १८॥
॥ १९॥
।॥ २०॥
॥ २१ ॥
॥ २२॥
॥२३॥
૨૮૦
For Private And Personal Use Only