________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१॥
॥ २॥
॥ ४॥
कविश्रीधनञ्जयविरचितम्
॥धनञ्जयनाममाला ॥ तनमामि परं ज्योति-रवाङ्मनसगोचरम् । उन्मूलयत्यविद्यां यद्, विद्यामुन्मीलयत्यपि द्वयं द्वितय-मुभयं, यमलं युगलं युगम् । युग्मं द्वन्द्वं यमं द्वैतं, पादयोः पातु जैनयोः ऋषिर्यतिर्मुनिभिक्षु-स्तापस: संयतो व्रती। तपस्वी संयमी योगी, वर्णी साधुश्च पातु वः दीक्षितं शैक्षं शिष्यं च, तमन्तेवासिनं विदुः । कृतान्ताऽऽगमसिद्धान्तग्रन्थाः शास्त्रमतः परम् भूमिभूः पृथिवी पृथ्वी, गह्वरी मेदिनी मही। धरा वसुमती धात्री, क्षमा विश्वंभराऽवनिः वसुधा धरणी क्षोणी, क्ष्मा धरित्री क्षितिश्च कुः। कुम्भिनीलोर्वरा चोर्वी, जगती गौर्वसुन्धरा तत्पर्याय-धरः शैलस्तत्पर्याय-पतिपः । तत्पर्याय-रुहो वृक्षः, शब्दमन्यं च योजयेत् दरीभृदचलः शृङ्गी, पर्वतः सानुमान् गिरिः । नगः शिलोच्चयोऽद्रिश्च, शिखरी त्रिककुन् मरुत् प्रस्थं पाश्र्वं तटं सानु-र्मेखलोपत्यका तटी। नितम्बमन्तो दन्तश्च, तद्वानपि गिरिः स्मृतः राजाऽधिपः पतिः स्वामी, नाथः परिवृढः प्रभुः । ईश्वरो विभुरीशानो, भर्तेन्द्र इन ईशिता अनोकहस्तरुः शाखी, विटपी फलिनो नगः। द्रुमोऽध्रिपः फलेग्राही, पादपोऽगो वनस्पतिः
॥७॥
॥
८
॥
॥९॥
॥ ११ ॥
ર૯
For Private And Personal Use Only