________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४१॥
॥४२॥
॥४३॥
॥ ४४ ॥
।। ४५ ॥
द्वितीयायाश्चतुर्थ्याश्च षष्ठया युष्मद्बहुत्वके। वश्चाऽऽसां च विभक्तीनां द्वित्वे वां कथितो बुधैः आकाशे विहगे विश्व शं श्रेयसि सुखेऽव्ययः । शा तु शान्ते च सास्नायां शी: शये हिंसनेऽपि च शुश्चन्द्रे षः सदार: स्यात्तथेष्टे प्रसवे तु षः । सः सूर्ये च परोक्षे च सं शङ्कावव्ययस्तु सम् सङ्गार्थे शोभनार्थे च प्रकृष्टार्थ-समर्थयोः । प्रथमान्तस्तदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते हः शूलिनि करे नीरे क्रोधे गर्भप्रभाषणे। निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे अव्ययो हा स्मृतः शोके तथा दुःख-विषादयोः । हि हेतौ पादपूर्ती च विशेषे चावधारणे स्फुटे दानेऽथाव्ययो ही दु:खे हेतौ च विस्मये । विषादे चाव्ययो हं त्वनुनये कोपभाषणे हुमव्ययः परिप्रश्ने वितर्के वचने तु हौ । हे कुत्सायां तथा हे तु हूतौ सम्बोधने तु हौ राक्षसे क्षस्तथा क्षेत्रे शब्दा ये व्यक्षरादयः । स्वरान्ता व्यञ्चनान्ताश्च ज्ञेया ग्रन्थान्तरात्तु ते मलधारिगच्छभर्तुः सूरेः श्रीराजशेखरस्य गुरोः। शिष्यः सुधाकलश इत्येकाक्षरनाममालिकामतनोत्
॥ ४६॥
|| ४७॥
॥ ४८ ॥
।। ४९ ॥
॥५०॥
Ros
For Private And Personal Use Only