________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २९॥
॥३०॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
निः स्यात् क्षेपे च नित्यार्थे भृशार्था-5ऽश्रय-राशिषु । कौशले बन्धने मोक्षे संशये दारुकर्मणि अधोभावोपरमयोः सन्निधानेऽव्ययो मतः। नुः प्रश्ने च वितर्के च विकल्पेऽनुशयेऽव्ययः तरण्यां नौस्तथा ख्यात: प: पाने पवने पथि । प्रौढे च वर्णके पश्च पा पातरि तथा श्रुते फकारो निष्फले जल्पे पुष्करे भयरक्षणे। फं फा वाते फले फेने फूत्कारे फूस्तथोदितः बः कुम्भे वरुणे पद्मे कलहे विगतौ तथा । भश्चालि-शुक्रयोर्भावे भा च दीप्तौ भये तु भी: भं धिष्ण्ये भूर्भुवि स्थाने मश्चन्द्रे च विधौ शिवे । मौलौ च बन्धने मूः स्यान्मा माने वारणेऽव्ययः अस्मच्छब्दे द्वितीयायां मा च षष्ठ्यां च मे पुनः । मा मातरि तथा लक्ष्म्यां यस्तु वाते यमेऽपि च धातर्यपि पशौ यः स्याद् या याने यातरि श्रियाम् । खट्वाङ्गेऽपि च र कामे तीक्ष्णे वैश्वानरे नरे रामे वजे च शब्दे स्याद् रा द्रव्ये कनके पुनः । आश्रये नीरदे च स्याद् रुः सूर्ये रक्षणेऽपि च भये शब्दे च री भ्रान्तौ लकारश्चलने पुनः । लाऽऽदाने लूश्च लवने लश्च लौश्च बिडौजसि लश्चामृते दिशायां च ली: श्लेषे वलये तथा । वो वाते वरुणे रुद्रे सान्त्वने चाव्ययः पुनः एवार्थे उपमाने च विकल्पे च समुच्चये। विः श्रेष्ठेऽतीते नानार्थे वै हेतौ पादपूरणे
।। ३५ ॥
॥ ३६॥
॥ ३७॥
॥ ३८ ॥
।। ३९ ॥
॥ ४०॥
૨૫
For Private And Personal Use Only