________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७ ॥
॥ १८ ॥
॥१९॥
॥ २०॥
॥ २१ ॥
॥ २२॥
छ: सूर्ये छेदके ख्यातस्तथा संवरणे भवेत् । छं च छन्दसि तडिति निर्मले च तथा स्मृतः जश्च जेतरि जनने विगते जिस्तु जेतरि। जूर्विहायसि जवने पिशाच्यां विगतेऽपि च झो नक्तं गायने नष्टे घर्घरध्वनिनामनि। चारुवाक्-चारयोईस्तु व्यूहने गूढरूपके ट: पृथिव्यां ध्वनौ वायौ करङ्केटं पुनर्भुवि । चकोरेऽब्दे तथा ठस्तु घटे शून्ये बृहद्धनौ चन्द्रस्य मण्डले रुद्रे डो वृषाङ्के ध्वनावपि। बन्दिवृन्दे तथा ड: स्याद् यामिनीपतिमण्डले ढो ढक्कायां समाख्यातस्तथा ढा निर्गुणे ध्वनौ । णः प्रकटे निष्फले च प्रस्तुते ज्ञान-बन्धयोः तकारस्तस्करे युद्धे कोडे पुच्छे च ता श्रियाम् । तु स्यात् पूर्वनिवृत्तौ च पूर्वस्मादवधारणे विलक्षणे विकल्पार्थे थो भवेद् भयरक्षणे । भूधरे च तथा भारे दो दाने दायकेऽपि च दाने दातरि दा केचिद् विदुर्दा छेद-बन्धयोः । दं कलत्रं तथा धं च धीरे च धनदे धने धश्च चित्रेऽश्ववारे च धीर्बुद्धाविषुधावपि । गुह्यकेशे विरिञ्चौ धा तथा धूर्भार-कम्पयोः धूते धुराकम्पने च नो बुद्धौ ज्ञान-बन्धयोः । अस्मानस्मभ्यमस्माकमेषां स्थाने भवेच्च नः निषेधार्थेऽव्ययौ नो च नकारश्च नरस्तु ना। निः श्रुते नेतरि ख्यातो नुः स्तुतौ च प्रकीर्तितः
॥ २३॥
।। २४ ॥
।। २५ ॥
।। २६ ॥
॥ २७॥
॥ २८॥
२७४
For Private And Personal Use Only