________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६
॥
॥
७
॥
॥
८
॥
॥९॥
॥ १० ॥
॥ ११ ॥
कुसूलवत् कुशूलोऽपि संपुटे पुट इत्यपि। पेटायां स्यात्पेटकोऽपि पेडापि कृतिनां मते पवन्यपि समूहन्यामयोनि मुसलं विदुः । कण्डोलके पिटकोऽपि चुल्लयामन्तीति कथ्यते खजः खजकोऽपि मथि विष्कम्भः कटकोऽस्य तु । अगोऽपि पर्वते क्रौञ्चः क्रोञ्चवन्मन्यते बुधैः कखट्यपि खटिन्यां स्यात्ताम्रमौदुम्बरं विदुः । शातकौम्भमपि स्वर्णे पारदश्चपलोऽपि च रसजातं रसायं च तुत्थे दार्वीरसोद्भवे । माक्षिके वैष्णवोऽपि स्याद्गोपित्तं हरितालके मनःशिलायां नैपाली शिला च सुधियां मता। शृङ्गारमपि सिन्दूरे कुरुविन्दे तु हिङ्गुलुः बोलो गोपरसोऽप्युक्तो रत्नं माणिक्यमित्यपि । पद्मरागे शोणरत्नं वैराटो राजपट्टवत् नीलमणौ महानीलं कमन्धमपि वारिणि । धूमिका धूममहिषी धूमर्यो महिकाः समाः अकूवारोऽपि जलधौ मकरालय इत्यपि । निम्नगायां हादिनी स्याज्जनुकन्यापि जाह्नवी कलिन्दपुत्री कालिन्दी रेवा मेकलकन्यका । चान्द्रभागा चन्द्रभागा गौमती गौतमीत्यपि चक्राण्यपि पुटभेदाः पङ्के चिक्खल्ल इत्यपि । उद्घातनोद्घाटने च घटीयन्त्रे प्रकीर्तिते सरस्तडाकस्तटाकोऽप्यथ तल्लश्च पल्वले। आशयाशशुष्मबर्हिर्बहिरुत्थदमूनसः
॥ १२ ॥
॥ १३॥
।। १४ ॥
॥ १५ ॥
॥ १७ ॥
૨૬૮
For Private And Personal Use Only