________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
अग्नौ क्षणप्रभा विद्युद् गन्धवाहसदागती। वायौ चरणपेऽपि द्रुस्त्वक्त्वचा स्तबके पुनः गुलुञ्छुलुम्बयौ माकन्दरसालावपि चूतवत् । किङ्किराते कुरुण्टककुरुण्डकावपि स्मृतौ कर्कन्धूरपि कर्कन्धौ हुस्वादिश्चाटरूषकः । वाशा च स्नुहिः स्तुहापि प्रियालोपि पियालवत् नार्यङ्गोऽपि च नारङ्गोऽक्षे बिभेदक इत्यपि । भवेत्तमालस्तापिच्छो निर्गुण्टी सिन्दुवारवत् जपा जवा मातुलुङ्गो मातुलिङ्गोऽपि कीर्तितः । धत्तूर इव धुत्तूरो वंशस्त्वक्सार इत्यपि हीबेरं केशसलिलपर्यायैः स्मर्यते बुधैः । पङ्कजिन्यां कमलिनी कुमुदिनी कुमुद्वती विसप्रसूनं कमले कुमुत्कुमुदवन्मतम् । शेपालं च जलनीली सातीनोपि सतीनवत् कुम्लासवत्कुल्माषोऽपि गवेधुका गवीधुका । कणिशं कनिशं रिद्धे धान्ये त्वावासितं मतम् हालाहलं हालहलं मुस्तायां मुस्तकोऽपि च । कृमिः क्रिमिरपि गण्डूपदः किंचुलुकोऽपि च शम्बुका अपि शम्बूका वृश्चिको द्रुत इत्यपि। भसलो मधुकरोऽलिः पिक्को विक्क: करि करी व्यालो व्याडोऽप्यौपवाह्योऽप्युपवाह्येऽप रावरा । शृङ्खले निगलोऽन्दूश्च कक्षा कक्ष्यापि वाल्हिके वाल्हीकोऽपि वलावागे खलिनं च खलीनवत् । मऽप्युष्ट्रे गोपतौ तु शण्ड इत्वर इत्यपि
॥ २४ ॥
॥ २५ ॥
॥ २६॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
૨૩
For Private And Personal Use Only