________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६॥
॥३७॥
॥ ३८ ॥
वतंसोऽप्यवतंसे स्यात्पत्रभङ्गयां तु वल्लरी । मञ्जरी च पत्रात्पारितथ्या पर्यवतथ्यया कर्णान्दूरपि कर्णान्दुः परिहार्योऽपि कङ्कणम् । किङ्किणी किङ्कणी तुल्ये आच्छादाच्छादने समे कुर्पासेऽप्यङ्गिका कक्षापटे कक्षापुटोऽपि च । कुथे वर्णपरिस्तोम इत्युखण्डं जगुः परे तत्रास्तरणमिति च पल्यङ्कोऽप्यवसक्थिका । यमन्यपि प्रतिसीरा संस्तर: प्रस्तरोऽपि च पतद्ग्राहप्रतिग्रहावपि स्यातां पतद्ग्रहे। मकुरोऽप्यात्मदर्शेऽथ कशिपुः कसिपुः समे यावकालक्तकौ यावे तुल्ये व्यजनवीजने । गीरीयको गिरिकोऽपि बालक्रीडनके मतौ गेण्डुकोऽपि गन्दुको राट् मूर्धावसिक्त इत्यपि । भरतः सर्वदमनोऽप्यथ दाशरथावुभौ रामचन्द्ररामभद्रौ हनूमानपि मारुतौ । वालौ सुग्रीवाग्रजोऽपि पार्थे बीभत्सुरित्यपि सातवाहनवत् सालवाहनोऽपि प्रकीर्तितः । परिच्छदे परिजनः परिवर्हणमित्यपि मन्त्री बुद्धिसहायोऽपि वेत्री वेत्रधरोऽपि च । हेमाध्यक्षे हैरिकोऽपि टङ्कपतिस्तु नैष्किके शुद्धान्ताध्यक्ष आन्तर्वेश्मिकान्त:पुरिकावपि । सहायसाप्तपदीनौ सख्यावसुहृदप्यरौ नये नीतिरपि स्कन्धावारेऽपि शिबिरो मतः । जयन्त्यपि वैजयन्त्यां पटाकापि प्रकीर्त्यते
॥ ३९ ॥
॥४०॥
॥४१॥
॥४२॥
॥ ४३ ॥
॥४४॥
૨૫
For Private And Personal Use Only