________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिथो मिथस् कुत्सायां, पुक् पुत् द्वौ पादपूरणे । हहि प्रश्ने रोषे, उम् ऊम् द्वौ विस्मयविषादयोः हा है विस्मये ही है है स्मरणे आ च आस् तथा । तुमर्थे क्रन्तुं क्रान्तुं च क्षन्तुं क्षान्तुं सेमे मते गन्तुं गान्तुं दीर्घादीनि गतौ कौ पन्थिके क्रमात् । अभिनय-व्याहरणे ईम् कीम् शीम् सीम् निरूपितम् अव्यक्ते ईम् शीम्, मर्षे पादपूत च, सीमिति । भार्यायां क्षम् गम् ऊम्, त्रीण्यूर्यादावङ्गीकृतौ भृशे विस्तारेऽनुकरणे च प्रशंसायामुरर्युरी । उरुरी उरी चत्वारि, हिंसायां कथिता अमी
Acharya Shri Kailassagarsuri Gyanmandir
भ्रंशकला ध्वंसकला स्रंसकला समः कला । ससकला समकलाऽपि मसमसा च मस्मसा गुलुगुधा गुलुगुला पार्दाली च वार्दाल्यपि । विचारे आक्ली च विक्ली च तद्विड्वराऽऽकुलीकृतौ ताली विताली आताली क्रियासंपादने फली । फल्यू च साक्षादादौ स्यात् सामर्थ्योत्साहयोरमी असहने प्रसहने विसहने त्रयी त्वियम् । एदन्ताऽथ च वैरूप्येऽन्ये संतापे वधे क्रमात् प्रकम्पने विकम्पने एदन्तौ रोहशोभयोः । प्राजरुहा बीजरुहा जरणे कथिताविमौ प्राजर्या वीजर्या तुल्यौ चिता चित्ता च चेतने । इत्यूर्यादौ कतिचिदव्ययाः कुञ्संबुजः स्मृताः अस् स्पर्शे स्थाने युक्तौ विभक्तिप्रतिरूपकम् । षष्ठीतृतीयार्थे तव ते मम मे च क्रमाद् मतौ
૨૫૯
For Private And Personal Use Only
॥ ११५ ॥
॥ ११६ ॥
॥ ११७ ॥
॥ ११८ ॥
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
॥ १२२ ॥
॥ १२३ ॥
॥ १२४ ॥
॥ १२५ ॥
॥ १२६ ॥