________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२७ ॥
अधोऽर्थे त्वध अदन्तं हैमादर्शेषु दृश्यते । अथ सान्तमथ अथो एष्वर्थेषु त्रयोऽप्यमी कथिता: संशया-ऽऽरम्भ-साकल्येषु समुच्चये। अनन्तरार्थे च तथा प्रतिज्ञाप्रश्नयोरपि अन्वादेशेऽधिकारार्थे मङ्गले शं च सं सुखे
।। १२८ ॥ ॥ १२९ ॥
॥ २
॥
श्रीमज्जिनदेवमुनीश्वरविरचितः ॥ अभिधानचिन्तामणिशिलोञ्छः ॥
प्रथमकाण्डः अर्हं बीजं नमस्कृत्य गुरूणामुपदेशतः । श्रीहैमनाममालायाः शिलोञ्छ: कियते मया
॥१॥ सवीर्य इत्यपि जिने संभवः शंभवेऽपि च । श्रीसुव्रते मुनिरपि नेमौ नेमीत्यपीक्ष्यते षष्ठे गणेशे मण्डितपुत्रोऽपि कथितो बुधैः । मरुदेव्यपि विज्ञेया युगादिजिनमातरि चक्रेश्वर्यामप्रतिचक्राप्यजितापि कविभिरजितबला । श्यामा त्वच्युतदेव्यपि सुतारिकोक्ता सुताराऽपि
॥४॥ भद्रकृद्भद्रकरोऽपि श्रवणः श्रवणोऽपि च । भद्रं भन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः
॥५॥ प्रव्रज्याऽपि परिव्रज्या शिष्योऽन्तेषदपि स्मृतः । इति प्रथमकाण्डस्य शिलोञ्छोऽयं समर्पितः
२६०
For Private And Personal Use Only