________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १०४ ॥
नुवै नु नुकं किंस्वित् स्विदाऽऽहोस्विदुताहो च । आ हौ, हेतौ यद् यतो येन यदि तेन च तत् ततः ॥ १०३ ॥ चैव, संबोधने पाट प्याट् हंहो आहो अहो अपि । है हौ व्यस्तौ समस्तौ च स्मरणाऽ ऽह्वानयोरपि हो हौ व्यस्तौ समस्तौ च ह्वानेऽपि, अररे अरे। . भोभो भो भो अयि हये ए ऐ च द्वौ स्मृतौ
|| १०५ ॥ आह्वानेऽपि, ऊ ओ हूतावपि देवहविर्तुतौ । श्रौषट् वोषट् वषट् वट वाट वड्, मध्ये त्वन्तराऽन्तरे ॥१०६ ।। अन्तरेणाऽन्तरभावे, अ ना नो नहिकं नहि । नोहि नवा नवै नोचेत् नचेत् मा मास्म वारणे || १०७ ।। आशङ्केऽथाऽभ्युपगमे ओं अमाऽऽमा द्वे अन्तिमे । अवधारणेऽप्युपमाने इव एव च वा इव
॥१०८॥ वत्, पक्षान्तरे चेत्, चाऽवधृतौ वा वैव मेव च । द्वौ द्वावित्यर्थे मिथुनं मिथो मिथुश्च सान्तिमे
॥१०९॥ आनुपूर्फे अनुषगाऽनुषद्, संशयप्रश्नयोः । किम् कीम्, विनियोगाचारातिकमयोस्तु हा हवत् ॥११०॥ प्रैषानुमानप्रतीक्षासमाप्तिषु वावदिति । त्वावन् वावद् वियोगे च पादपूर्ती वेद् वाद्-वदौ ॥ १११ ।। दान्ताः प्रश्ने वितर्के च प्रशंसायामिमौ मतौ। कूपत् सूपत्, विशेषे स्यात् न्वै तुवै तु च कुत्सने ||११२॥ विनाशे चान्तकादऽऽङ्क, स्यातामद्भुतखेदयोः । अहहा अहह उभौ, वर्जने च निषेधने
॥११३ ॥ नकिर् नकिस् माकिर् माकिस्, सत्ये हिंसाप्रशंसयोः । प्याट् पाट्, कोपे च पीडायां मत् आस् च रहसि त्विमौ ॥११४ ॥
૨૫૮
For Private And Personal Use Only