________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वेधे व्यधः, क्षये क्षिया, स्फरण - स्फुरणे समे । देवतार्थ्ये वर-वृती अथाऽव्ययगणस्मृतिः स्वः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः । शनैश्चरेऽप्यथोर्ध्वे तु उपरिष्ठादुपर्यपि अधरदेशेऽधोऽधस्ताद् वर्जने त्वन्तरेणवत् । अन्तराऽन्तर्द्धा मध्येऽपि हिरुक् कान्तं पृथक् पुनः
Acharya Shri Kailassagarsuri Gyanmandir
कान्तं जान्तं च मौने तु तूष्णीकं तूष्णीमित्यपि । जोषं जोष्यं च सौख्येऽपि आनन्दे द्वयमिष्यते उपजोषं च समुपजोषं, सर्वासु दिक्ष्विह । समन्ततः समन्ताच्च, पुरस्तात् पुरतः पुरः पूर्वदेशेऽस्मिन् तु काले साम्प्रतं सम्प्रति स्मृतम् । शीघ्रे झटिति झगिति द्राक् प्राक् कान्ते समे मते सर्वकाले शश्वत् सश्वत् पुनरर्थेपि, सर्वदा । सदा सदं सनत् सनात् सना नित्यं च नित्यदा वारवारेण च वारंवारमसकृदर्थके । पुनः पुनः पुनर्मुहुमुहुर्मुहुरपि स्मृतम् सायं मान्तं दिनान्ते स्याद्दिने सान्तमुदन्तकम् । द्युराकाशेऽपि च दिवा, तत्क्षणे सपदीति च पदन्तं स्यादेकपदे, दीर्घकाले चिराच्चिरम् । चिरेण चिररात्राय चिरायाऽपि चिरस्य च रात्रौ मान्तं नक्तमुषा दोषा स्यात् पक्षणी निशि । उभयेद्युरुभयद्युर्निशान्ते तु उषा उषः अभ्यर्णेऽपि हिरुक् कान्तमल्पे किञ्चिच्च किञ्चन । मनाक् कान्तं वितर्के किं किमूत किमुताऽपि च
૨૫૦
For Private And Personal Use Only
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
॥ १०२ ॥