________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७९ ॥
।। ८०॥
।। ८१ ॥
॥८२॥
।। ८३ ॥
॥ ८४ ॥
शीने स्त्यानमन्तर्गते विस्मृतं प्रस्मृतं समे। विदिते बुधितं बुद्धं, स्यन्ने स्तुतं स्रुतं स्मृतम् रक्षिते तु त्राणं त्रातं गुप्तं गोपायितं तथा । वशक्रिया संवननं संवदनं, स्थितौ पुनः आस्याऽऽसना, पर्यटनेऽटाट्याऽटाटाऽप्यटाट्यया । वैपरीत्ये विपर्यासो विपर्यायोऽप्यनुक्रमे क्रमः परिपाटि-परीपाटी स्यादानुपूर्व्यवत् । आनुपूर्वी, भवेदिष्टे निकामं च प्रकामवत् कामाप्त्यर्थे तु गाढमुद्गाढं भर-निर्भरौ । जृम्भणं त्रिषु जृम्भा स्यात्, परिष्वङ्गेऽङ्कपालिवत् अङ्कपाली परिरम्भः परीरम्भोऽप्यथोत्सवे । महो महश्च सान्तं षण, मेलके सङ्ग-सङ्गमौ साङ्गमोऽथो अनौद्धत्ये प्रश्रयः प्रशरोऽपि च । आरम्भे क्रमः प्रोपाभ्यामुपोद्घात उद्घातवत् उत्क्रमे व्युत्क्रमः प्रोक्तोऽक्रमोऽथ विप्रलम्भने । विप्रलम्भः, विप्रयोगो वियोगो विरहे स्मृतः सामान्ये तु जातिर्जातम्, स्पर्धायां तु समः परौ । हर्ष-घर्षों च संक्राम-संक्रमौ दुर्गसञ्चरे जलतरणेऽपि, परिणामे विकृति-विक्रिये। विकार:, घूर्णने घूर्णिन्तिर्धमि-भ्रमावपि लवने लवा-भिलावौ, निष्पावे पवनं पवः । थूत्कृते ष्ठीवनं ष्ठ्यूत-निष्ठेव-ष्ठेवनानि च स्याद् निवृत्तावुपरमो व्युपाव्याङ्झ्यो रतिः परा । विधूनने विधुवनं, ग्रहणे ग्राहवद् ग्रहः
॥ ८५ ॥
॥८६॥
॥ ८७।।
॥८८॥
।। ८९ ॥
।। ९०॥
For Private And Personal Use Only