________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५५ ॥
॥५६॥
॥ ५७ ।।
॥५८ ॥
॥ ५९॥
॥ ६० ॥
एकात्सर्गा-ऽयन-ताना-ऽग्राण्ययनगतं तथा । एकाग्रं, पूर्वे त्वाद्या-ऽऽदी आदिमं प्रग्रमग्रवत् चरमेऽन्त्यमन्तिमा-ऽन्तावन्तमं पश्चिमान्वितम् । अपश्चिमं स्वरूपे नञ् पाश्चात्यं पश्च-पश्चिमात् अर्धा-नुपूर्व्य-भिमुखाः शब्दा योज्याः, दिवोऽचि च । पृषोदरादित्वाद् दिवो धुश्चाऽऽदेशः, यदुच्यते दिवः स्थाने दिवोऽचि स्याद् दिव् च दीर्घे पुनः परे। उकारोकारयोरुच्च पश्चातोऽर्धादिके तलुक् मध्यजाते मध्यमीयं मध्यमं माध्यमं तथा । मध्यन्दिनं माध्यन्दिनं मध्येऽभ्यन्तरमन्तरम् अन्तरालं, समं तुल्ये समानं सदृशं सदृक् । सदृक्षमनुहारे तूपान्मान-मिति-मा-मताः औपम्यमुपमामुक्तेऽनुपमं स्यादनोपमम् । कथ्यते त्वरी प्रतिमा प्रतिमानमयोमयी शूमिः शूर्मी च तालव्यदन्त्यादी शूर्म इत्यपि। वामे वि-प्रतितो लोममपष्ठूरमपष्ठुरम् प्रसव्यमपसव्यं चोच्छृङ्खले तु निरर्गलम् । अनर्गले भिन्ने त्वन्यदन्यतरदपीतरत् मिश्रे करम्बः कबरम्, तूर्णे त्वरित-सत्त्वरे । संपातपाटवे झम्पा झम्पोऽजस्रे तु संततम् सततं चानवरता-ऽविरते स्यादनारतम् । सङ्कुले त्वाकुलं कीर्णं समाङ्मयां कीर्णमित्यपि भरिते प्राणं पूर्णं च पूर्त पूरितं छादितम् । छनं, त्यक्ते विधुतवद्धृतं, विन्नं विचारिते
।। ६१॥
1॥६२॥
।। ६४॥
॥ ५ ॥
॥६६॥
૨૫૪
For Private And Personal Use Only