________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४३॥
॥ ४४ ॥
॥ ४५॥
॥४६॥
॥४७॥
॥४८॥
निकृष्टे त्वपकृष्टं स्याद्धमं चाऽवमं समे। याप्यं याव्यं रेप-रेफौ रेपो रेफश्च सान्तिमे अर्वाऽर्वाणोऽसेचनकमासेचनकमित्यपि । दर्शनाद् दृगतर्पेऽर्थे, शोभने मञ्ज-मञ्जुलौ रम्यं रमणीयं सौम्यं सोमं बन्धूर-बन्धुरे। नमेऽपि कमनीयं स्यात् काम्यं कनं मनोरमम् रामाऽभिरामे चाऽसारे शक्यं शिक्यं च, रिक्तके। शून्यं शुन्यं च, प्रत्यग्रे नवीना-ऽभिनवे नवम् नव्यवद् नूतनं नूलं, जीर्णं जरति जर्णवत् । प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् प्रत्नं चिरत्नं च चिरन्तनम्, परुद्भवे मतम् । परुत्तनं परुन्तमं परुत्नं च, परारिजे परात्नं परारिन्तनं परारितनमित्यपि । पार्वे तालव्यदन्त्यान्तमभ्यासं सन्निधानवत् सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स-ठम् । अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे सनातनं सदातनं शाश्वतिकं च शाश्वतम् । अतिस्थिरे स्थेयं स्थास्नु स-ठं स्थेष्ठं च, जङ्गमे चरं चराचरं तद्वच्चरिष्णुवदिहाऽस्थिरे । परिप्लवं पारिप्लवं चञ्चलं च चलाचलम् चलं चपलं चटुलं कमनं कम्प्रमष्यथ । अधोमुखेऽवनतं स्यादानतं, कुटिले पुनः वकं वकं च वक्रिश्चानुगे चान्वगन्वक्षवत् । असहाये चैकाक्येक एककोऽनन्यवृत्तिके
॥४९॥
॥ ५० ॥
॥५१॥
॥ ५२ ।।
॥ ५३॥
॥ ५४॥
૨૫૩
For Private And Personal Use Only