________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
खरपुष्पायां कबरी बर्बरा बर्बरी तथा । वृन्ता वार्ता वार्ताकी वार्ताकं च वार्ताकुवत् वार्ताङ्गो वातिङ्गणश्च तथैव दुष्प्रधर्षिणी । दुष्प्रधर्षणी च शतपर्णायां तु कलम्बिका कलम्बूश्च, पालघ्ने तु छत्रा-छत्रा - ऽतिछत्रवत् अतिछत्रस्तिक्तके तु पटोलः पटुवत् स्मृतः पुष्करमूले पौष्करं पुष्करं मूलमित्यपि । भृङ्गराजे भृङ्गरोऽपि भृङ्गरजो नादन्तगः भृङ्गरजश्च सान्तोऽपि षर्बुजे चाऽपि मूर्धजे । दशाङ्गुलमितिख्यातं कारवेल्ले सुशव्यपि सुषवी सुवी कर्कारौ कुष्माण्डो विदां मतः । कुष्माण्डोsपि च कूष्माण्डी, पटोल्यां तु कोशातकी कोषातकी च, कर्कट्यां स्यादीर्वारुरिर्वारुवत् । ऊर्वारुरुर्वारुरपि एर्वारुश्चिभिटी तथा
चिभिटं चिभिटस्तद्वत् वालुङ्कः स्याद् वालुक्यपि । पुषी त्रपुसी त्रपुषं त्रिपुषं च, घ्नेऽर्शसः शूरणो दन्त्यतालव्यादिमः, बालतृणे पुनः । शस्यं स्याद्दन्त्यमूर्धन्यमध्यम्, बर्हिषि दभ्रवत् दर्भ: कुश: कुसो मुझे शरस्तालव्यदन्त्यभाक् । दूर्वायां हरितालीवद्धरिता, धमने नडः
नलो नटः, कुरुविन्दे मुस्ता त्रिषु च मुस्तकः । इक्षौ गण्डीरी गण्डकी, पुण्ड्रेक्षौ पुण्ड्र - पौण्ड्रकौ कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया । यवासं यवसंघातेऽर्जुने तु द्वे तृण- त्रिणे
Acharya Shri Kailassagarsuri Gyanmandir
२४०
For Private And Personal Use Only
॥ २६४ ॥
॥ २६५ ॥
॥ २६६ ॥
॥ २६७ ॥
॥ २६८ ॥
॥ २६९ ॥
॥ २७० ॥
॥ २७१ ॥
॥ २७२ ॥
॥ २७३ ॥
॥ २७४ ॥
।। २७५ ।।