________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २५२॥
॥ २५३॥
॥ २५४॥
॥ २५५॥
॥ २५६॥
॥ २५७ ॥
मसूरा मसुराऽप्येते वेश्यायामपि वार्द्धयः । कलाये सतीनकः स्यात् सातीनश्च सतीनवत् सतीलक-सातीलको त्रिकटोऽङ्कट इत्यपि। चणके हरिमन्थः स्याद् हरिमन्थज इत्यपि मुद्गे हरिः सहरितस्तुम्बरस्तु वनोद्भवे । राजमुद्गे मकुष्टः स्याद् मयुष्ठोऽपि स-ठान्तिमौ मुकुष्ठक-मयष्ठको वर्गाद्याप्तौ स-ठान्तिमः । मुकुष्ठः स्याद्, धान्यभेदे कुल्माषश्च कुल्मासवत् जघन्यव्रीहौ श्यामाकः श्यामकः पीततण्डुली । कङ्गु-क्वङ्ग कङ्गुनी च कङ्कुश्च, कोरदूषके कोद्रवः कुद्रवोऽप्युक्तः, युगन्धर्यां तु योनलः । जोन्नाला यवनालश्च, जूर्णा जूणिः शणः सणः भङ्गायाम्, गवेधुकायां गवीधुका गवेधुवत् । गवेडुश्च, तिलात्पिञ्जपेजौ षण्डतिले ह्युभौ कदम्बके सरिषपः सर्षपः, सस्यशीर्षके। कविशं कणिशोऽफलकाण्डे पल-पलालको कडङ्गरे वुसवुषौ, मेघनादे स्मृतावुभौ । तण्डुलीयस्तण्डुलेरस्तण्डुलीशाकभिद्यहो मारिषं मारुषम्, बिम्ब्यां स्यात्तुण्डी तुण्डिकेरिका। तुण्डिका तुण्डिकेरी च, मधुस्रवायां तु जीवनी जीवन्ती जीवनीया च जीवा स्यात्, क्षारपत्रके। शाकवीरो वीरशाको वास्थूकमपि वास्तुकम् चङ्गेयाँ स्यादम्ललोना लोणिका चाऽम्ललोणिका। अम्बोष्ठिकायुताऽम्बष्ठा टोलावदम्लटोलक:
।। २५८॥
॥ २५९ ॥
॥ २६० ॥
॥ २६१॥
॥ २६२ ।।
॥ २६३ ॥
૨૩૯
For Private And Personal Use Only