________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४० ॥
॥ २४१ ॥
॥ २४२ ॥
।। २४३॥
॥ २४४॥
|| २४५ ॥
नवमालिका सप्तला सातला कैवत्तीपरे । मुस्तके वानेयं वन्यं प्लवं च परिपेलवम् दशपूरं दशपुरं, कटम्भरौषधौ मता । भद्रबला राजबला महाबला प्रसारणी सरणी सरणा वापि सारणी कटली पुनः । ज्योतिष्का ज्योतिष्मती च तर्कार्या वैजयन्तिका जया जयन्ती पानीयकण्टके तु शृगाटकम् । सङ्घाटिका त्रिकोणश्च त्रिकोने प्रोपमे पुनः बाताममपि बादामं पद्मब्जोऽदन्त-सन्तषण् । जलात् पङ्कात् सरसोऽपि परे जन्म-ज-रुट्-रुहा: सरसीरुहं सरसिरुहं विसप्रसूतवत् । विसप्रसूनमपि स्यात्कैरविण्यां कुमुद्वती कुमुदिन्यथोत्पले तु कुवेलं कुवलं कुवम् । कुवलयं कैरवे तु कुमुदं कुमुदुत्पले नीले त्विन्दीवरं चन्दीवारमिन्दीकर तथा । सौगन्धिके तु कल्हारं हकाराकान्तलान्वितम् पद्मनाले तु मृणालं मृणाली च विशं विसम् । विसण्डकं च पद्मादिवृन्ते नाली तु नालया नालं किञ्जल्के तालव्य-दन्त्यमध्यं तु केसरम् । नवपत्रे संवर्तिका संवर्तिर्जलनीलिका शेवालं शैवलं शैवालं शेपालं च शीवलम् । शेवलं पाटलसाला वाशुराशु च व्रीहिवत् आशुव्रीहिः कलमस्तु कडमश्च कलामकः । मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा
॥ २४६॥
॥ २४७ ॥
।। २४८ ॥
॥ २४९ ॥
॥ २५० ॥
॥ २५१॥
૨૩૮
For Private And Personal Use Only