________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुकबहँ बर्हिः पुष्पं पुष्पं स्पृकौषधौ पुनः । कोटीवर्षा कोटिवर्षा कोटिर्माला मरुधुता
॥ २२८ ॥ मरुन्मालाऽप्यथ वृद्धदारके इक्षगन्धया । इक्षुगन्धा छागलात्री छगली तद्वदात्र्यपि
॥ २२९ ।। दन्त्यां मकूलक-मुकूलौ रक्ताङ्गके पुनः । स्यात्कम्पिलश्च काम्पिल्लः काम्पिल्योऽपि कम्पीलवत् ॥ २३० ।। रोचना रेचनी बलभद्रिका त्रायमाणिका । त्रायन्ता, रास्नायां रस्या रसना रसनं रसा
॥ २३१ ॥ मांसिगन्धद्रव्ये मिषी मिसिश्च जटिला जटा । जनातिगन्धद्रव्येषु स्याज्जनी जननी जनिः
।। २३२ ॥ जतूका जतो: का-कायौँ जतुकृच्चातिविषा पुनः । विषी विषा प्रत्युपाभ्यां त्रिवृति त्रिवृता स्मृता ॥ २३३ ॥ त्रिपुटी त्रिपुट प्रोक्ता रोचनी रेचनीयुता । शतवीर्यायां तु शतावरी चेन्दीवरी वरी
॥ २३४॥ सहदेव्यां सहदेवः सहदेविश्च कथ्यते । मञ्जिष्ठा वर्गद्वितीययुग् भण्डीरी च भण्डिरी
॥ २३५॥ भाण्डीरी भण्डी विकसा विकषा कालमेश्यपि । कालमेषी चविकायां चविकं चवनं तथा
।। २३६ ॥ चव्यं चव्याऽप्यथ तण्डुलायां तु तण्डुलः । तन्तुलोऽपि विडङ्गं च विलङ्गं गन्धमूलिका
।। २३७॥ शटी षटी च कर्नूर: कर्चुरोऽप्यथ क्षीरिणी । हिमावती हिमवती स्थिरायां शालपर्णिका
॥ २३८ ॥ दन्त्य-तालव्याद्याथाखुपर्यों चित्रोपचित्रया। ऐलवालुके वेलेयं वालुकं हरिवालुकम्
॥ २३९ ।।
૨૩૦
For Private And Personal Use Only