________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिच्छिलायां शाल्मलिः स्याच्छल्मलि: शाल्मलोऽपि च । प्लीहशत्रौ रोहितको सरोहितक-रोहितौ
।। २०४॥ रोही खदिरे गायत्री नन्तो ड्यतश्च कथ्यते । पुण्डरीके तु पुण्डर्यं प्रपुण्डरीकमित्यपि
॥ २०५ ॥ कतके कतोऽपि केशहन्व्या शमिः शमीति च। हस्वा शमीरुः शमीरस्तूते तूदं तुदं तथा
|| २०६॥ मधुयष्ट्यां यष्टिमधु यष्टीमधुकमादृतम् । यष्टिर्मधुकं त्वक्पत्रे गुडत्वक् त्वक् त्वचं तथा ॥ २०७॥ वराङ्गकं वराङ्गं च स्यादेलायां तु निष्कटिः । निष्कया स्थूलैलायां तु कथिता त्रिपुटा पुटा
॥ २०८॥ कर्कटशृङ्गयां शृङ्गी च कृष्णाभेट्यां कटंवरा । कटुकी कटुकश्चापि अशोका रोहिणीयुता
॥ २०९॥ अशोकरोहिणी दारुहरिद्रायां कालेयकः। कालीयको गालवे तु रोध्र-लोध्रौ च सावरः ॥ २१० ॥ तालव्य-दन्त्यपूर्वः स्यात्, तद्भेदे ड्यन्त-नान्तगः । पट्टी फणिज्जके तु स्याद् मरुबक-मरूबकौ ॥ २११ ॥ रक्ताम्राते कुरुबकः सोकारानुकाररकः । महासहायामम्लातो म्लातको म्लान इत्यपि
।। २१२ ॥ अमिलातकेऽपि दुरालभायां तु यवासकः । यवास-यवाषौ यासो धन्वयासोऽपि सम्मतः ॥ २१३॥ धन्वयवासको धन्वयासो रोदनी बोधनी । मोरटायां मूर्वा मूर्वी स्रवा सुवाऽपामार्गके
।। २१४॥ खराद् मञ्जरि-मञ्जयौं भायां हिञ्जी च फञ्जिका । ब्राह्मणी नाह्मणाद्या स्याद् यष्टिकाथ किरातक: || २१५ ॥
૨૩૫
For Private And Personal Use Only