________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९२ ॥
॥ १९३॥
॥ १९४ ॥
॥ १९५ ॥
॥ १९६ ।।
॥ १९७ ॥
तद्भेदे चिक्कणं चिक्कं ताम्बूली कथिता बुधैः । ताम्बूलवल्ल्यां क्रमुकपर्णचूर्णकसंयुजि तम्बुलं च सताम्बूलं तुम्ब्यां तुम्बः सतुम्बकः । तुम्बी तुम्बिरलाबूवदालाबूरप्यलाबु च लाबुका गुञ्जायां काकचिञ्चिका काकणिन्दिका। काकनन्तिका, गोस्तन्यां मृद्वीका स्याद् मृदीकषा रसा द्राक्षा ध्राक्षा कण्ठ्यां त्रिकण्ट-त्रिककण्टको । गोक्षुरो गोक्षुरु-क्षुरौ गोखुरो गिरिकर्णिका आस्फोता स्यादास्फोटा च वीरणीमूल आदृतम् । उशीरमुषिरमुशिग् जान्तो लघुलयं लघु लयमृणाला-मृणाले अवदाहेष्टकापथम् । इष्टकापथावदाही बालके वाल इष्यते हीवेरं हिरिवैरं च दद्रुघ्ने तु प्रपुन्नटः । प्रपुन्नाटश्च प्रातुन्नाटक: पद्माट इत्यपि प्रपुन्नाङ: प्रपुनाड उरणा-क्षोरणाख्यकौ । शिरीषे भण्डी भण्डीरो भण्डिरो भण्डिलोऽपि च जम्बूवृक्षे जम्बुरपि तत्फले जम्बु-जाम्बवे । जम्बूः स्त्री स्यादरलौ त्वरेटुः श्योनावशोणको स्योनाकः कुटनटवद् नटोऽथ चिरजीवकः । जीवको मधुरकश्च मधुरः कूर्चशीर्षके कपीतनो गर्दभाण्डे कपीतः पीतनस्तथा। नागकेसरे केसरो नाग: स्याद् मदनद्रुमे पिण्डी पिण्डीतक: कटहलद्रौ पनसः स्मृतः । फनस: पणसो भल्लातके रुष्वोऽप्यरुक्करः
॥ १९८॥
॥ १९९॥
॥ २०० ॥
॥ २०१॥
॥ २०२॥
॥ २०३ ॥
૨૩૪
For Private And Personal Use Only