________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वातूलो वातुलो वातसमूहेऽथासहेऽपि च । वातविकारस्याऽरण्ये पण्डं शण्डं वनं वनी
॥ १२० ॥ सत्रं तालव्य-दन्त्यादि दवो दावोऽटव्यटविः । चुरुम्बः सतुरुम्बश्चारामेऽपोपात्परं वनम्
|| १२१ ॥ राज्ञामन्तःपुरोधाने प्रमदा-प्रमदाद् वनम् । वृक्षे द्रुमो विद्रुमो द्रु:कुठिः कुण्ठोऽहिपोऽध्रिपः ।। १२२॥ शालस्तालव्य-दन्त्यादिः शिखी शाख्यगमोऽगवत् । पारिन्दश्चापि पालिन्दो गाथकेऽपि दलान्विते ॥ १२३॥ पर्णल: पर्णिलो वृक्षे स्थाने वृक्षैर्वृतान्तरे। निकुञ्ज-कुञ्जौ जरुट-जरुडौ च, वनस्पती
॥ १२४ ॥ फलाप्तवृक्षे फलवान् फलिनश्च फली तथा। फलपाकावसानायामौषध्यौषधिरोषधी
॥ १२५ ॥ क्षुपो हुस्वशिफाशाखे क्षुपको, व्रततिर्लता । प्रततिव्रतती तद्वद् वल्लि-वल्ल्यौ च वेल्लिवत् ॥ १२६॥ प्ररोहे रोहेऽप्यङ्क्राङ्कुरौ शाखा शिखा लता । स्कन्धशाखा शाला साला जटा जटि: शिफा शिफः ॥१२७ ।। मूले वृक्षस्य बुध्नः स्याद् ब्रनोऽहिरघिसंयुतः । मज्जा नान्तो ना मज्जाबन्ता सारेऽथ वल्लिका ॥१२८॥ त्वचस्त्वचा त्वक् च चोचं शल्कं वल्कं च वल्कलम् । शकलं वल्के शल्के त्वर्धेऽपि शल्कं शकलेऽपि ॥१२९ ॥ कोटरे निक्कुटः प्रोक्तो निष्कहो, वल्लरौ पुनः । वल्लरी मञ्जरी मञ्जा मञ्जरिश्चापि, पर्णके
॥ १३० ॥ पत्रं पात्रं पतत्रं च छादनं छदनं छदः । सन्तं छदोऽस्त्री चादन्तः, नवेऽस्मिन् किसलं स्मृतम् ॥ १३१ ।।
૨૨૮
For Private And Personal Use Only