________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१०८॥
॥ १०९ ॥
॥ ११०॥
॥ १११॥
||११२ ॥
|| ११३॥
बिन्दौ पृषतिः पृषतः पृषत्, पङ्के तु कर्दमः । दमोऽपि, दीर्घिकायां तु वापिर्वापी च कूपके क्षुद्रे चुरिश्चुरी चुण्डिचण्ढी च घटीयन्त्रके । उद्घाटकमुद्धाटनमुद्धातनमपि स्मृतम् कासारे तु तडागः स्यात् तडाकश्च तटाकवत् । सर:-सरस्यौ स्थानकेऽलवालं चालवालयुक् आवालोऽस्त्री, उत्स उत्सुः स्त्रवः प्रस्रवणं झरः । झरी झरा निस्स्च, वह्नावग्निस्तु पुं-स्त्रियोः दमुना दमूना सन्ता वञ्चतिश्चाङ्कतिस्तथा । शुष्मा बहिर्बहि: शुष्मा नान्तः शुष्मोऽस्त्यदन्तक: आश्रयाश आशयाश विश्वप्सा नान्तगो मतः । विश्वप्सोऽपि, नान्तो दान्तः शन्त्रतोऽपि तनूनपात् घासिर्घसुरिहवनो हविश्च द्वौ वनात्परौ । दवो दावो, हेतौ कीला कीलो ज्वालो पि ज्वालया अचिरर्ची सन्तेदन्तावूष्मा नान्तः सहोष्मया। बाष्पे, तडिति शम्पा स्यात् सम्पा शम्बा च विद्युता विद्युत् सौदामिनी सौदामनी सौदाम्निकान्विता । सौदाम्नी च सुदाम्नी वा चपला चवला चला आकालिकी चाकालिका, वायौ मरुत-मारुतौ । मरुत् समीर-समरौ सृमरौऽप्यनलाऽनिलो जगत्प्राणो-जगत्प्राणौ गन्धाद् वाहि-वाह-वहाः । वातिर्वातो भवेत् सारो दन्त्य-तालव्यपूर्वगः शबलवर्णेऽपि सरट-सरडौ टान्त-डान्तगौ । लघट् च लघिटिः पविः पवनः पवमानवत्
|| ११४॥
॥११५ ।।
॥११६॥
॥ ११७ ॥
॥ ११८॥
॥ ११९॥
૨૨છે.
For Private And Personal Use Only