________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९६ ॥
|| ९७ ॥
॥ ९८ ॥
॥ ९९ ॥
॥१०० ॥
।। १०१ ॥
वाद्धिर्वारिनिधिरुत्सोत्सू अपांपतिरप्पतिः । यादसांपतिश्च याद:पतिश्चाप्यकूपारवत् अकूवार: पारापारः पारावारोऽपि कथ्यते । अवारपारस्तरङ्गे भङ्गो भङ्गं महत्पथम् लहरी लहरिः, फेने डिण्डीर: सहिण्डीरकः । पिण्डीर-दिण्डीरौ तट्यां तटं तटः प्रतीवत् तीरं रोधोऽदन्तः पुंसि रोधः सान्तं नपुंसके। जलोज्झितेऽस्मिन् पुलिनं पुरिनं सैकतं तथा सिकता, नद्यां हदिनी हादिनी च धुनी धुनिः । आपगाऽथाप्यपगा श्रोतो दन्त्य-तालव्यगादिमम् स्रोतस्विनी स्रोतस्वती स्रोतोवहा स्रवन्तिका। द्रवन्त्योषधिभेदेऽप्यमू भवेतां च, गोदया गोदावरी, सूर्यात्मजा तापिस्तापी शतद्रुयुक् । शुतुद्रिः शुतुद्रुरपि शितद्रुः सरयूयुता सरयुः कोसलानद्यां, नदीभेदे तु चन्द्रिका। चन्द्रभागा चन्द्रभागी भागी चान्द्राच्च भागया वासिष्ठ्यां गोमती तद्वत् गोतमी स्याद् विपाड्युता । विपाशोक्ता, वैतरणी वैतरणिरवन्तिगा सिप्रा सृप्रापि, स्वतोऽम्भःसरणे श्रोत उच्यते । दन्त्य-तालव्ययुग् देहसिरास्वपि प्रवाहके वेणिर्वेणीवक्त्रं वक्त्रं पुटभेदेऽम्बुनिर्गमे । परिवाह-परीवाही नाल-नादौ प्रनालिका प्रणालः प्रणालं तोयमार्गे सरणिः सारणी। कुल्यायां, सिकतायां तु वालुका वालिकापि च
|| १०२ ॥
॥ १०३ ॥
॥ १०४॥
॥ १०५ ॥
॥ १०६ ।।
।। १०७॥
રક
For Private And Personal Use Only