________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १३२ ॥
॥ १३३॥
॥ १३४॥
॥ १३५ ॥
॥ १३६ ॥
|| १३७ ॥
किसलयं द्वयं दन्त्यं, पुष्पे सुमनस: स्त्रियाम्। भूम्नि सुमना ऐक्येऽपि प्रसूनं सून-सूनके प्रसूतकं प्रसूतं च प्रफुल्लं फुल्लवत् सुमम् । कुसुमं, कलिकायां तु कलिः स्यात्कोर कोरको कुड्मले कुद्दालं तद्वत् कुष्मलं कुमलं तथा । मुकुलं मकुरं प्रोक्तं मुकुरं, बकुलद्रुमे कुलालदण्डे कोरको दर्पणेऽपि च कोशवत् । कोषो द्वौ च को दिव्ये रैवये योनिशिम्बयोः जातीकोशे सिपिधानेऽण्डकोऽपि स्तबके पुनः । गुत्सो गुच्छो गुलुम्बुश्च गुलुच्छु: सगुलुच्छकः गुच्छको गुञ्छको गुञ्छो गुलुञ्छोऽस्त्री, रसे पुनः । पौष्पे मकरन्दः ख्यातो मकलन्दो मकरन्दवत् प्रबुद्धे प्रफुल्ल-फुल्ले संफुल्लोत्फुल्लके स्फुटम् । स्फटितं सव्याकोशं च व्याकोषं स्यात् फले पुनः शस्यं तालव्य-दन्त्यादि वानावाने तु शुष्कके। ग्रन्थौ पकः षण्ढं सन्तं पसश्च बीजकोशिका शिम्बा सिम्बायुता शिम्बिः शमी शिमिश्च पिप्पली। पिप्पलः पिप्परी बोधिः स्याद् बोधिद्रुम इत्यपि स्यादश्वत्थे च, प्लक्षे तु पर्कटी नन्त-ड्यन्तगः । जटी नन्तो जटी ड्यन्तो भवेज्जटिरिदन्तक: न्यग्रोधे तु वटो वट्या वटं जन्तुफले पुनः । उदुम्बरोडुम्बरौ द्वौ मलयूर्जघनेफला मलयुः, सहकारेऽम्र आम्रोऽपि शिग्रुके स्मृतः । दन्त्य-तालव्यादि: शालाञ्जनोऽक्षीव आक्षीववत्
॥१३८ ।।
॥ १३ ॥
॥ १४०॥
॥ १४१ ॥
|| १४२ ॥
॥१४३॥
૨૨૯
For Private And Personal Use Only