________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ २७॥
॥ २८ ॥
।। २९ ॥
नगरे नगरी द्रङ्ग-द्राङ्गौ पत्तन-पट्टने । पुरस्त्रिषु पू: पुरिश्च, कन्याकुब्जं तु गाधिपूः कन्यकुब्ज, शिवपुर्यां कासिस्तालव्य-दन्त्यभृत् । वराणसी वाराणसी वाणारसी वराणसिः कासी काश्यथाऽयोध्यायां कोसलोत्तरकोशला। कर्णपुर्यां चम्पा चण्या, मथुरा मघुरान्विता मधूपघ्ने, गजाह्वये हस्तिनी हस्तिनायुतात् । हास्तिनात् पुरं स्तम्बपू: लिप्तं स्यात्ताम-दामतः तामलिप्ती, विदर्भायां कुडिनी कुण्डिनात् पुरम् । द्वारकाऽनिकाररेफा, सालस्तालव्य-दन्त्यभृत् वरणे प्राकार: पारक् जान्तः क्षौमे तु अट्टवत् । अट्टालकयुतोट्टालो, वृत्तौ वाटी च वाटिका वाटो वाटं वाटिरिख प्राचीनं च प्रचीरवत् । मार्गे तालव्य-दन्त्यादि: सरणिः सरणी पथः पन्थाः पन्थान-पथी वर्त्मनिर्वर्त्म वर्तनिः । वर्तनी पदवी तद्वत् पदविः, सत्पथे पुनः स्वतितः पन्थाः, अपथमपन्था गूढवम॑नि । भूमध्ये तु व्युकाराप्ता दन्त-तालव्यपूर्वगा शुरुङ्गा सन्धिला सन्धिः, स्थाने तु पदमास्पदम् । पितृ-प्रेताद्वन-गृहे, धिष्ण्ये सदन-सादने गृहं गेहं धाम धाम मन्दिरै मन्दिरा कुटिः । कुटः कुट्योक: सान्तं षण् पुंस्योकोऽदन्त उच्यते सत्रं सार्ज वस्त्यं पस्त्यं निवासा-ऽऽवास-वासकाः । आवसथो वसितश्चोदवसितं न्याङयुग लय:
॥ ३०॥
॥ ३१॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
૨૨૦
For Private And Personal Use Only