________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥१५॥
॥१६॥
॥१७॥
विषयः पुंस्त्रियोर्नीवृदुपोपातस्तु वर्तनम्। जाङ्गलो निर्जले देशे जाङ्गलो जडभूयसि नडकीयो नड्वलश्च नडांश्च, बहुशर्करे। शर्करा शर्करिलोऽपि शर्करावांश्च शार्करः सिकता-वालुकाप्राये स्याद् सिकतिल-सैकतौ । सिकतावान्, साखायः शाखिनेडाहाल-डाहलाः डहालाश्चेदयश्चैद्याः, साल्वाः सल्वा अपि स्मृताः वाह्निका-वालि-वाह्लीकाः, पाञ्चालाः स्युः पञ्चालवत् कुङ्कणः कौङ्कणोऽप्युक्तो, द्रविडो द्रमिडोऽपि च । ग्रामे तु वसथः सं-न्यु-प-प्रति-परितः परः पल्लि-पल्ल्यौ गृह-गृहसमूह-स्थानकेष्वपि । सीम-सिमौ क्षेत्र-सीम-गोचर-भू-हयेष्वपि मर्यादा घट आपाटः स्थविः स्थिविश्च सीमया । सीम: सीमा त्रिषु नान्तो मालं ग्रामान्तराटविः मालकोऽपि भवेत्क्षेत्रे वप्रो वप्यश्च सम्मतः । शाकक्षेत्रे स्तृतं शाकं शाकटं शाकशाकिनम् अणुक्षेत्रे चाणवीनमणव्यमपि, भगवत् । भाङ्गीनं च भङ्गाक्षेत्रे, उमाक्षेत्रे तथोम्यवत् औमीनं च यवक्षेत्रे यव्यं यवक्यं यावकम् । माषाक्षेत्रे तु माषीणं माष्यं च, तृतीयाकृते शम्बाकृतं सम्बाकृतं, वापादौ द्रौण-द्रौणिके। द्रोणस्य, खलधाने तु खलस्त्रिषु च, रेणुके धूलि-धूल्यौ पांशु-पांसू रजो ना सान्तषण् रजः । दलौ लोष्टो लेष्टुञ्जेष्टुर्नाको कुलक-कूलको
॥ १८ ॥
॥ १९॥
॥ २०॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
૨૧૯
For Private And Personal Use Only