________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गोदारणे प्रवयणे तोत्रं प्रतोद - तोदने । आबन्धे तु योत्र - योक्त्रे कोटीशो लोष्ठभेदने कोटिशः खलवाल्यां तु मेधिर्मेथिश्च शूद्रके । पद्य - पज्जौ क्षत्र- वैश्याजातौ माहेष्यवद् मतः महिष्योऽपि शिल्पिनि तु स्युः कारु- कारि-कारयः । ध्वजो ध्वजी कल्पपाले मद्ये कपिश - कापिशे कापिशायनं माध्वीकं मार्द्वीकं च परिश्रुता । परिस्रुद् दन्त्य - तालव्यमध्यातालव्य - दन्त्यभृत् सुरा - मदिरा मद्वरी मदना मद्य - बीजके । नग्नहूर्नग्नहुर्मद्यसन्धाने, भिष - वासवौ पानपात्रे तु तर्षणा ऽनुतर्षो मद्यपाशने । उपदंशश्चावदंशः स्यात् तेजसावर्तनीमुखा मूषा मूषी शाणे शाणा शाणिर्निकषवत्कषः । कृपाण्यां कर्तरिः प्रोक्ता कर्तरी चापि, सेवनी सूत्र: सूत्री सूचि -सूत्रे द्वे पिप्पलक - पिप्पले । कर्तनसाधने तर्कस्तर्कुट्यपि च सीवनम् सेवनं च स्यूतौ स्यूते तु प्रसेवश्च प्रसेवकः । स्योनं स्यात्तन्तुवाये तु तन्त्रवायः कुविन्दवत् कुपिन्दोऽपि सूत्रवेष्टे त्रसरस्तसरोऽपि च । वानदण्डे वेम वेमा तन्तौ स्यात् सूत्रतन्तुवत् सूत्रः सूत्रं सूत्र्यपि स्यादुपानहि तु पादुका । पादू: पन्नद्धापि पादाज्जङ्गुर्वीथी रथी तथा पीठी त्राणं रक्षणं च पदात् त्वरायतापि च । वस्त्रायां नधी वध्री वार्द्धा वर्द्धापि वर्द्धवत्
૧૬
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३३३ ॥
॥ ३३४ ॥
॥ ३३५ ॥
॥ ३३६ ॥
॥ ३३७ ॥
॥ ३३८ ॥
।। ३३९ ।।
॥ ३४० ॥
॥ ३४१ ॥
॥ ३४२ ॥
॥ ३४३ ॥
॥ ३४४ ॥