________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिण्याके खलि: खलोऽस्त्री स्यात्तक्षिण्यां तु वासिवत् । वासी तूलिका त्वीषी केषिका कान्दविके पुनः ॥३४५ ॥ भक्ष्यकारो भक्ष्यकार आदितालव्य-दन्त्यभृत् । श्वेदनिका श्वेदनश्च कन्दौ स्याद् नापिते क्षुरी
॥ ३४६ ॥ क्षौरिको भण्डिवाही च भाण्डिकस्तस्य भाण्डके । क्षुर: खुरो, मायाकारे प्रातिहारिक उच्यते
॥ ३४७॥ प्रतिहारो, मायायां तु शाम्बरी साम्बरी तथा। इन्द्रजाले तु कुहुकं कुहकं तद्वदाहतम्
॥ ३४८॥ विनोदे स्यात् कुतुकं कौतुकं च कुतूहलम् । कौतूहलं, पापौ तु मृगव्यं मृगया मृगः
॥ ३४९॥ आच्छोदनं च द्वितीयथद्वितीयकसंयुतम् । आखेटक आखेश्च, रज्जौ तन्त्री च तन्त्रिवत् ।। ३५० ॥ वटारक-वटारौ द्वौ वटस्त्रिषु तु दोरवत् । दवरश्च तन्तुगुणे, दाशो दासश्च धीवरे
।। ३५१॥ दाशी दासी धीवरी स्याच्छिलाजतु च चेट्यपि । मत्स्यबन्धने बडिशं बलिशं च, वधास्पदे
।। ३५२॥ शूना तालव्य-दन्त्यादिः, पामरः प्रामरोऽपि च । क्षुल्लक: खुल्लकस्तद्वद्, निषादे तु श्वपाकवत् ।। ३५३ ॥ पाकश्चण्डाल-चाण्डालौ बुक्कस: पुक्कसस्तथा । पुत्कसोऽन्तावसायी चान्तेवास्यपि पुलिन्दवत् || ३५४ ॥ पुलिन्द्रोऽपि, शबरे तु पत्रशबर उच्यते । वरटो वारटोऽप्युक्त इडीडौ म्लेच्छजातिके
।। ३५५ ॥
For Private And Personal Use Only