________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२७३ ॥
॥ २७४ ॥
॥ २७५ ॥
॥ २७६ ॥
।। २७७ ॥
॥ २७८॥
अटन्यटनिराी पीडायामपि स्यात्तलम् । तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम् बाणे पृषत्कस्तात्कान्त: सायक: सायवत्सरः । शरः शरुः स्वरुर्भल्लो भलिश्चापि कडम्बयुक् कलम्ब इव कादम्बो भेर-भेलावमू तथा । भेकेऽपि, कर्तरिः पुझे कर्तरी, शरधौ पुनः तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् । उपासङ्गोऽपि खड्ने तु ऋष्टि-रिष्टी नरस्त्रियोः करवाल: करपाल: करालिकस्तथोदितः । चन्द्रहासश्चन्द्रभासो धारान्तोगो धरोऽपि च प्रत्याकारे कोश-कोषावावरणे फरं स्फरम् । स्फर: स्फरकः फरकः फलकं फलमित्यपि खेटकः खेटकं खेटं, कृपाणिका छुरी क्षुरी । क्षुरिका साऽऽयता पत्रात्पालः स्यात्पालिकाऽपि च एकधारासौ स्यादीली इली च करवालिका । करपालिकाऽपि तरवालिकाऽपि च, कुन्तके प्रासस्तालव्य-दन्त्यान्तो, मुद्गरे द्रुघणो घनः । द्रुघन:, कुठारे पशुः परशुश्च परस्वधः पर्श्वधः परश्वधश्च स्वधितिः, परितो घके । पलिघो दन्त्य-तालव्यौ शर्वली शर्वला युधि लोहदण्डे पट्टिशः स्याद् दन्त्य-तालव्यप्रान्तगः । अभ्यासभुवि खडूरः खलूरश्च खलूरिका प्रस्थाने त्वभिनिर्याणं प्रयाणं खलु हेतवे । तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारणी
॥ २७९ ॥
|| २८० ॥
॥ २८१ ॥
॥ २८२ ॥
॥ २८३ ॥
।। २८४ ॥
૨૧૧
For Private And Personal Use Only