________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सूपकारे सूप - सूदौ स्यादन्तः पुरके पुनः । आन्तर्वेश्मिकयुगान्तर्वंशिकोऽन्तः पुरे समौ अवरोधनावरोधौ भवेत्कञ्चुकिके पुनः । कञ्चुकी सौविदिल्लच सौविदः, स्थपतिस्तथा स्थापत्यः स्थापतीकश्च, रिपौ शत्रुः सशात्रवः | अभिमातिरभियातिरारातिश्चाऽप्यरातियुक्
-
ऋष्व ऋष्वौ घातुकेऽपि द्विषन् द्वेषी च द्विड्युतः । परे: पन्थक- पन्थिनौ, सख्यौ सूर्येऽपि चोच्यते
Acharya Shri Kailassagarsuri Gyanmandir
मित्रशब्दो द्वितकारः, सख्ये सौहार्द - सौहृदे मैत्यं मैत्री, हेरिके तु चरचारोऽवसर्प्यवत् अपसर्पः, सान्त्वजे तु शाम तालव्य - दन्त्ययुक् । प्रावृते लञ्चया लञ्च उपदोपप्रदानवत् शौर्ये शौण्डीर्य - शौण्डीरे नय - न्यायौ समञ्जसे । भागधेयो भागधेयी भागोऽपि कारवत् करः राजदेयेऽनीकिन्यां तु सेना सैन्यं चमूचमुः । सैन्यपृष्ठे प्रति-परेर्ग्रहः, केतौ तु केतनम् वैजयन्ती वैजयन्तो जयन्ती च ध्वजो ध्वजिः । ध्वाजिश्च ध्वजपस्तद्वत्पताकाऽपि पाकया ध्वजः कूर्चक उच्चूडोच्चूलौ द्वौ चूड- चूलकौ । अवात्परौ क्रीडार्थे तु रथे पुष्परथो मतः मूर्द्धन्यान्तस्थायोगाप्तो भवेत् कर्णीरथे पुनः । डयनं हयनं चाप्यनसि स्याच्छकटस्तथा शकटी शकटं तद्वच्छकटिर्वहसाऽन्वितः । वाहसो वृषभेऽप्येतौ, प्रधौ नेमी च नेमिवत्
૨૦૯
For Private And Personal Use Only
।। २४९ ॥
॥ २५० ॥
॥ २५१ ॥
॥ २५२ ॥
।। २५३ ।।
॥ २५४ ॥
।। २५५ ।।
॥ २५६ ॥
॥ २५७ ॥
॥ २५८ ॥
।। २५९ ॥
॥ २६० ॥