________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २३७॥
॥ २३८॥
॥ २३९ ॥
॥ २४०॥
॥ २४१ ॥
॥ २४२ ॥
गेन्दुकोऽपि कन्दुके द्वौ, पार्थिवे नृपतिर्नृपः । भूप-भूपति-भूपालास्तथा मू भिषिक्तयुक् मूर्धावसिक्तो राजा राट् राज्ये महिन-माहिने । वसुदेवा वासुदेवा अर्द्धचक्रिषु संमताः तज्ज्येष्ठभ्रातृषु बला बलदेवाः, पृथौ नृपे। वेनिर्वैन्यो, भरते तु स्यात् सर्वदमनस्तथा सर्वंदमः, सीतापतौ रामः स्याद् रामचन्द्रवत् । रामभद्रोऽपि, सौमित्रौ लक्ष्मणो लक्षणान्वितः कैकेयी कैकयी चास्याः पुत्रे तु भरतो मतः । भरथोऽप्यथ जानक्यां शीता तालव्य-दन्त्ययुक् इन्द्रसुते वालिर्वाली, मारुतो हनुमानिति । हनूमान्, भीमशत्रौ किर्मीर: कर्मीर-किर्मिरौ हिडिम्बो डीकारयुक्तोऽर्जुने फल्गुन-फाल्गुनौ । बीभत्सो बीभत्सुरपि, पाण्डुसूनुषु पाण्डवाः पाण्डवायनाश्चाऽर्जुनधनौ गाण्डीव-गाण्डिवौ । धनुर्मानेऽप्यमू, हाले वाहन: सात-सालत: सालोऽपि, परिवारे तु परेर्बर्हश्च बर्हणम् । आतपत्रे प्रतपत्रं छत्रं छत्रश्च छत्र्यपि रोमगुच्छे चामरं स्याच्चमरश्चामरस्तथा । चामरापि, भृङ्गारे त्वालूराण्डूः, सचिवे पुनः अमात्य आमात्यो मन्त्री मन्त्रिश्च, द्वारपालके। प्रतीहारः प्रतिहारो द्वा:स्थो द्वा:स्थितदर्शक: द्वाःस्थितो दर्शकस्तद्वत् द्वा:स्थितादय॑ऽपि स्मृतः। सूदाध्यक्षे पुरोगु: स्यात् तथा पौरोगवोऽपि च
॥ २४३॥
॥ २४४ ॥
॥ २४५ ॥
॥ २४६ ॥
॥ २४७॥
|| २४८॥
૨૦૮
For Private And Personal Use Only