________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हरिश्च, रक्तचन्दने पत्रगं च पतङ्गकम् । पत्राङ्गं, सौमनसे तु जातिर्जाती फलं तथा जातीफलं जातिफलं तद्वत्कोशफलं मतम् । जातीकोशं जातीकोषं कर्पूरे स्यात् सिताभ्रकः सिंताभश्चापि, कस्तूर्यां नाभिवद् मृगनाभिजा । मृगनाभिर्मृगमदो मृगः स्याद् मद इत्यपि कुङ्कुमे वरवाह्लीकं वरं वाह्लीक - वाह्निके । कश्मीरजन्म काश्मीरं कश्मीरजमपि स्मृतम् संकोचपिशुनं तद्वत्संकोचं पिशुनं समे । वर्णं वर्ण्य, देवसुमे लवङ्गं लवसंयुतम् कोशफले कक्कोलकं कक्कोलं कोलकं तथा । कोलं कोरं च, कालानुसार्ये यापक - जापके कालीयकं कालेयकं कालियं चाऽग्निवल्लभे । रालोऽक्ष्यरालः, श्रीवासे धूपः स्याद् वृक-वृक्षतः श्रीवेष्टः श्रीपिष्टकश्च, कोटीरे मुकुटोऽस्त्रियाम् । मकुटोsपि किरीटं स्यात् तिरीटं पुष्पदाम तु नान्तः क्लीन्नोराबन्तोऽस्मिन् मुण्डमालाभिधे स्मृतम् । ललामवल्ललामाऽश्व-प्रधान - ध्वज - लक्ष्मसु पुण्ड्र वालधि-शृङ्गेषु भूषा - प्रभावयोरपि । माल्यं माला, तिलके तमालपत्रं तमालवत् शीर्षत्रज्यवतंसः स्याद् वसन्तोत्तंसकौ समौ । योऽमी कर्णपूरेऽपि पत्रावल्यां तु पत्रतः भङ्गि - लेखा - लताङ्गुल्यो वल्लरी मञ्जरीति च । वल्लियोत्क्षिप्तकायां तु कर्णान्दूश्च कर्णान्दुयुक्
૨૦૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २०१ ॥
॥ २०२ ॥
॥ २०३ ॥
॥ २०४ ॥
॥ २०५ ॥
॥ २०६ ॥
॥ २०७ ॥
॥ २०८ ॥
॥ २०९ ॥
॥ २१० ॥
॥ २११ ॥
।। २१२ ।।