________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २१३ ॥
|| २१४ ॥
.
॥ २१५ ॥
॥ २१६॥
॥ २१७॥
॥ २१८ ॥
कण्ठभूषायां ग्रैवेयं ग्रैवं ग्रैवेयकं तथा । मुक्तास्रज्याहारो हारः स्त्रीन्रोर्यष्ट्यां सरि: सर: सारिकाऽप्येकावल्यां तु कण्ठी कण्ठिकया सह । कटिके तु पारिहार्य:परिहार्यश्च कङ्कणम् कङ्कणिश्चोर्मिकायां त्वङ्गुलीयकाङ्गुरीयके। मेखलायां सारसनं दन्त्य-तालव्यमध्यगा रसना, काञ्चिः काञ्ची च किङ्किणिः क्षुद्रघण्टिका । किङ्कणी कङ्कणीका च कङ्कणी किङ्किणीत्यपि समे मञ्जीर-मन्दारे नूपुरे पादत: परे। शीली च नालिका पादाङ्गुलीये पादत: परे पालिका कीलिका, वस्त्रे वसनं वस्न-वाससी। सिनो निवसनं सन्नं कर्पटं पटमित्यपि पट: पट्याच्छादनं च छाद: सिक्-सिचयौ तथा। वस्त्राञ्चले वर्ति-वस्ती दुकूलमतसीपटे दुगूलं, कम्बले रल्लो रल्लकोऽथ निवीतके । प्रावृतं निवृतं, स्थूलशाटे तालव्य-दन्त्यवान् वरासिः, परिधानस्य ग्रन्थौ नीवी च नीवियुक् । चण्डातके चलनकश्चलनश्चलनिका पुनः चोलश्चोली कञ्चलिका कञ्चूलः कञ्चुकोऽपि च । कूसिकश्च कूर्पासः कुर्पासः सकुर्पासक; शाटके तु शाटः शाटी, परिधानापराञ्चले । कच्छा कच्छाटी च कच्छाटिका, कौपीनके पुनः कक्षापट: कक्षापुट:, कर्पटे नक्तको मतः । लक्तकः, प्रच्छदपटे उत्तरच्छद उच्यते
॥ २१९ ॥
।। २२० ॥
॥ २२१ ॥
॥ २२२ ॥
॥ २२३ ॥
॥ २२४ ॥
૨૦૬
For Private And Personal Use Only