________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वुक्काग्रमांसाग्रमांसे वृक्कः स्यात्पुंस्त्रियोर्वसा । मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः मस्तकस्नेहे गोदोऽस्त्री करोटं शिरसोऽस्थनि । करोटीवत् करोटि भकालं च भगालयुक् पृष्ठहड्डे कशेरुका कशारुकाऽस्थिसंभवे । मज्जा नन्तो द्वयोर्मज्जाऽऽबन्तः स्त्री रेत्र - रेतसी बल- बल्ये च वीर्ये द्वे लोम रोम तनूरुहे । तनुरुहं, चर्म चर्मं त्वक् त्वचं चोचमित्यपि असृग्धरा सृग्धरा च कषिते लेख्यचर्मणि । कडित्रं सकटित्रं च, स्नायौ वसस्नया स्नसा स्नावा नान्तो, धमन्यां तु धमनिर्नाडि- नाडकौ । नाडी शिरा सिरा नेत्रमले दूषी सदूषिका
दूषीका काणुकं काणूकमाणूकवदाणुकम् । घ्राणमले शिङ्खाणक - सिङ्घाणौ, लालिका पुनः सृणीका सृणिका गूथो विड् - विषौ शान्त षान्तगौ । वर्चस्क- वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् नेपथ्ये वेष- वेशौ द्वावुत्सादनमुद्वर्तने । उच्छादनं चापि समालभने चचिक्यं मतम् चर्चाऽपि मण्डने प्रति परितः कर्म कथ्यते । मा मार्जी मृजा मार्जा मार्जना, स्नान आप्लवः आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते । वर्ती तथा जोङ्ग स्यादगर्वगुरु वंशकम् वंशिका वंशिकं कृमिजग्धं कृमिजमित्यपि । प्रवरं प्रकरं तुल्ये गोशीर्षे हरिचन्दनम्
२०४
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १८९ ॥
॥ १९० ॥
॥ १९१ ॥
॥ १९२ ॥
॥ १९३ ॥
॥ १९४ ॥
॥ १९५ ॥
॥ १९६ ॥
॥ १९७ ॥
॥ १९८ ॥
॥ १९९ ॥
॥ २०० ॥