________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२९ ।।
॥१३०॥
॥ १३१ ॥
॥ १३२ ॥
॥ १३३॥
॥ १३४ ॥
पांशुला पांसुलाऽथ स्यात् पति: पत्नी च जीवतः । पतिवल्यां, निर्वीरा च वीरा पति-सुतोज्झिता भिक्षुकी भिक्षुणी मुण्डा श्रमणा श्रवणाऽपि च । गणिकायां वेश्या वेष्या पण्याङ्गना पणाङ्गना कुट्टन्यां शम्भली दन्त्य-तालव्यादिर्मता बुधैः । कुम्भदास्यां पोटा वोटाऽवस्त्रनार्यां तु नग्निका नग्ना कोटवी कोट्टवी, ऋतुमत्यां तु पुष्पिता । पुष्पवती चाविरवी निष्पुष्पायां तु निष्कला निष्कल्यपि च स्त्रीधर्मे आर्तवं ऋतुसंयुतम् । रजः सान्तं रजोऽदन्तो ना गुणेऽप्यथ मैथुने सुरतं स्याद् रति-रते पशोर्धर्म-किये स्मृते । जभनं यभनं, गर्भवत्यां गुर्वी च गुर्विणी प्रसूतायां विजाताख्या प्रजाताप्यथ भ्रूणके। वृधसानो वर्धसानो गरभो गर्भ इत्यपि दोहदं दौहृदं श्रद्धा, पुत्र्यां तु स्यात् स्तनन्धयी । स्तनन्धया सूनुः सुतापत्ये, पुत्रेऽपि तोककम् तुगपत्ये, भ्रातृपुत्रे भ्रातृव्यो भ्रात्रीयोऽपि च । पुत्रपुत्रे पौत्रस्तस्य युवापत्ये पुनः स्मृतः पौत्रायण एवं पुनर्भूर्नानान्द्रो दुहितृवत् । पौनर्भव-पौनर्भवायणौ, नानान्द्र इत्यपि नानान्द्रायणो, दौहित्रो दोहित्रायणकस्तथा । पैत्र्यां नप्ता भवेद् नत्री स्यात् पितृष्वसुरात्मजे पितृष्वसेयवत्पैतृष्वस्त्रीयो, जननीस्वसुः । पुत्रे तु मातृष्वस्त्रीयस्तद्वन्मातृष्वसेयक:
॥ १३५ ॥
॥ १३६ ॥
॥ १३७ ।।
॥ १३८ ॥
॥ १३९ ।।
॥ १४० ॥
૧૯
For Private And Personal Use Only