________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४१ ॥
॥ १४२ ॥
॥ १४३॥
॥ १४४॥
॥ १४५ ॥
।। १४६ ॥
दास्याः सुते तु दासेय-दासेरौ च, नटीसुते । नाटेय-नाटेरौ, पुत्रे बन्धक्या बान्धकेयवत् बान्धकिनेयश्च, कौलटेर: स्यात् कौलटेयवत् । भिक्षुसत्याः सुते कौलटेय-कौलटिनेयको स्वजाते त्वौरसौरस्यौ, भवेद् गोलश्च गोलकः । मृते पत्यौ जारजोऽथ भ्रातरि स्यात्सहोदरः समानोदर्य-सोदर्य-सोदराः, ज्येष्ठभ्रातरि । अग्रजोऽग्रियाऽग्रिमको स्यात् कनीयांश्च कन्यसः यविष्ठोऽपि यवीयांश्च कनिष्ठे सोदरे समाः। ज्येष्ठ-कनिष्ठ-यविष्ठास्त्रिकवर्गद्वितीयकाः स्यालस्तालव्य-दन्त्यादि: पत्न्या भ्रातरि कथ्यते । देव-देवर-देवानः स्युः पत्युरनुजे, स्वसा जानिर्यानिः कुलस्त्री च भग्नी स्याद् भगिन्यन्विता । पत्युः स्वसरि ननन्दा ननान्दा नन्दनीत्यपि पत्नीकनिष्ठभगिन्यां श्याली शाली च, खेलने । परिहासः परीहासः कुर्दनं कूर्दनं समौ किल: केलिश्च जनके बप्पो वप्रश्च तातयुक् । ततो जनयिता तद्वज्जनित्रोऽपि च, मातरि अम्बाऽप्यब्बा जनयित्री जनित्री जननीयुता । जानी, पित्रोः स्मृतौ माता-पितरौ, मातरात्परौ पितरः पितृशब्दश्च, ज्ञातौ स्वः स्वजनस्तथा । बान्धवो बन्धुरात्मीये स्व-स्वकीये, नपुंसके पण्डु-पाण्डौ शण्ठ-शण्ढौ तृतीयाप्रकृतिस्तथा। तृतीयप्रकृतिर्देहे कलेवरं कडेवरम्
|| १४७ ॥
॥ १४८ ॥
॥ १४९ ॥
॥ १५०॥
॥ १५१ ॥
॥ १५२ ।।
२००
For Private And Personal Use Only