________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुवासिनी स्ववासिनी वधूटी वध्वटीति च । चिरिण्टी स्याच्चिरण्टी च चरिण्टी सचरण्टिका पत्न्यां सधर्मिणी सहधर्मिणीगृहिणीगृहाः । कलत्रं कडत्रं दारः पुंसि वा भूम्नि दारया जनिर्जनी कुटुम्बिन्यां स्यात् पुरन्ध्रिः पुरन्ध्यपि । स्नुषायां तु वधूयुक्ता वधूटी च जनिर्जनी कुलस्त्रियां तु कुलतो वालिका पालिकाऽपि च । कान्तायां प्रेयसी प्रेष्ठा षटकार ठकारभाक् प्रिया, कान्ते प्रियः प्रेयान् प्रेष्ठष्ट ठद्वयान्वितः । वरो वरयितोद्वाहे विवाहे यम- यामकौ उपात्, जायापत्योस्तु जम्पती दम्पती स्मृतौ । द्वित्वे, जस्यती दस्यती प्रायो वेदे प्रयोजितौ जित्वरीवाचकौ पूर्वावेकत्वादावुदाहृतौ । हरणे तु सुदायः स्याद् दायो युतक- यौतकौ यौतुकः, परगेहस्था त्वायत्ता शिल्पजीविनी । सैरन्ध्री चापि सेरन्ध्रयथावरोधनप्रेष्यिका असिक्निका स्यादसिवनी, दूत्यां दूतिरपि स्मृता । प्राज्ञी प्रज्ञा प्रजानत्यामाचार्यानी नृयोगके आचार्या, मातुलानी च मातुल्यपि तथा मता । उपाध्यायान्युपाध्यायी, क्षत्रियाणी स्वतो भवेत् क्षत्रिया स्यादुपाध्याय्युपाध्यायाऽऽर्याणिका पुनः । आर्या पुनर्भ्यां दिधिषूर्दिधीषुरपि तद्धवे दिधिषुर्दिधिषूर्विप्रे त्वग्रतो दिधिषुर्मतः । दिधिषूरप्यसत्यां तु वर्षणी धर्षणीति च
૧૯૮
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ११७ ॥
॥ ११८ ॥
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
॥ १२२ ॥
॥ १२३ ॥
॥ १२४ ॥
॥ १२५ ॥
॥ १२६ ॥
॥ १२७ ॥
॥ १२८ ॥