________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८१ ॥
॥ ८२ ॥
॥८३ ॥
॥८४ ॥
॥ ८५ ॥
॥ ८६॥
वलियुक्ते वलिनः स्याद् वलिभः, शस्तकेशके। केशवः केशिक: केशी, तुण्डिलो वृद्धनाभिके तुण्डिभस्तुन्दिलोऽभ्यान्ताऽभ्यमितौ ग्लान-ग्लास्नुको । व्याधिते, कच्छुरे तु स्यात्पामनः पामरस्तथा सातिसारेऽतिसारक्यतीसारकी, कफान्विते । श्लेष्मणः श्लेष्मलः, क्लिननेत्रे तद्वति पिल्लयुक् चिल्लञ्चुलोऽपि, मूर्ते तु मूछ लो मूर्च्छितोऽपि च । पित्ते पलाग्निः पललज्वरोऽथ खेटयुक् खटः वलासो दन्त्य-तालव्यप्रान्तकः कथितो बुधैः । कफे, व्याधौ रोग-रुजौ रुजाऽप्यामय आमकः अमः, क्षये राजयक्ष्मा यक्ष्मा जक्ष्मापि नान्तकः । जक्ष्म-यक्ष्मावदन्तौ द्वौ, क्षवे क्षुत् क्षुतमप्यथ क्षवथौ काश: कासोऽपि, खसे पामा तु पामया। कच्छू: कच्छुः स्त्रियां सर्वे, खर्चा कण्डूयनं मतम् कण्डू: कण्डूति-कण्डूये, व्रणे रुषो रुषा सह । ईर्मोऽस्त्रियामीर्म नान्तं, गण्डे विस्फोट-स्फोटको पिटक: पिटका तद्वत्पिटकं च, किलासके। सिध्म-सिध्मे, कुष्ठभेदे दर्दुर्दद्रुश्च दद्रुयुक् दद्र्र्द(श्च, कोठके मण्डलकं च मण्डलम् । हल्लासे हिक्का हेक्कापि, पीनसे स्यादपीनसः आपीनसः प्रतिश्यायः प्रतिश्या, श्वयथौ पुनः । शोफ-शोथौ, छर्दने तु च्छर्दिश्छर्दी प्रच्छर्दिका वमनं वमि-वमथू, कुरण्डस्त्वण्डवर्धने। कूरण्डोऽपि, प्रमेहे तु मेहोऽपि च, चिकित्सके
॥ ८७॥
।। ८८ ॥
।। ८९॥
।। ९०॥
।। ९१ ॥
॥ ९२॥
૧૫
For Private And Personal Use Only