________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६९ ॥
॥ ७० ॥
॥ ७१ ॥
।। ७२ ॥
॥७३॥
।। ७४ ॥
न्यक्कारः सनिकार: स्यात्, जागरूके तु जागरी । जागरिका, जागरणे जागर्या जागरस्तथा जागरा जाग्रिया, शङ्की संशयालुर्भवेदयम् । सांशयिको दक्षिणार्हे दक्षिण्यो दक्षिणीयक: दण्डिते दाप्यतः प्रोक्तो दायितोऽपि तथोच्यते । अर्ये प्रतीक्ष्यो निर्यापि, पूजिते त्वपचायित: अपचितोऽथाहणायां पूजा पूज्याऽथ पीनके। बहुलो बहलः स्थूर-स्थूलौ पीवा सपीवरः मांसलांसलौ निर्दिग्धे, कृशे शात-शितौ स्मृतौ । तीक्ष्णेऽप्येतो, बृहत्कुक्षौ तुन्दी तुन्दिक-तुन्दिलौ तुन्दिभौऽप्युदरिकश्चोदरिलोदरिणौ समौ । अनासिके विख-विखू विनोऽपि, नतनासिके अवाद् भ्रट-टीट-नाटा नाशायां तन्त्रतावपि । खरनासे खरणस: खरणाः, खुरसदृग्नसि खुरणा: स्यात् खुरणसः, श्रोणे पगुः सपङ्गुलः । स्यात् खल्वाटे तु खलति-खलतावल्पकायके पृश्नि-पृष्णी गडुले तु न्युज-कुब्जौ, कुहस्तके। कुणि-कूणी, हुस्वकरपादे खर्वो निखर्वयुक् हस्वशाखे वामनश्च वामा नान्तो, द्विनग्नके । वण्डो दन्त्यौष्ठ्यवादि: स्यादल्पमेद्रेऽपि, खञ्जके खोड-खोरौ च खोटोऽपि, पोगण्डो विकलाङ्गके। अपोगण्डोऽप्यूर्वजानावूर्वज्ञोर्ध्वज्ञको समौ विलजानौ प्रजुः स्यात् प्रज्ञोऽपि, युतजानुके । संजु-संज्ञौ च सर्वत्र जबसंयोग उच्यते
||७६ ॥
॥ ७७॥
॥ ७८
॥
॥ ७९ ॥
।। ८०॥
૧૯૪
For Private And Personal Use Only