________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दयालौ तु कृपालुः स्यात् कृपारुरनुकम्पने । कारुण्यं करुणा हिने हिंसीरोऽपि, निबर्हणे
॥ २१ ॥ विशारणं विशरणं निर्वासन-प्रवासने । उद्वासनं, वधार्हे तु शैर्षच्छेदिकसंयुतः
॥ २२॥ शीर्षच्छेद्यो, मृते प्रेत-परेतौ, तदहेऽर्पणे। तदर्थं चोर्ध्वदेहिकमौर्ध्वदेहिकमित्यपि
॥ २३॥ ऊर्ध्वदैहिकमप्यग्न्याधाने तु मृतदाहगे। चिति-चित्या-चिताः प्रोक्ताः, ऋजौ तु प्राञ्जलोऽञ्जसः ॥ २४ ॥ अनृजौ तु शठः शण्ठो, धूर्ते व्यंशक-व्यंसकौ । शठ-शण्ठौ च षण्ढेऽपि, जालिके मायि-मायिकौ ॥२५॥ मायावी, दाण्डाजनिको, दण्डाजनिक इत्यपि । मायायां शठता-शाठ्ये, व्याजे लक्ष्यं तु लक्षयुक् ॥ २६॥ संख्यायामपि, पिशुने, मत्सरो मत्सरी खलः । प्रखलः खुल्लकः क्षुल्लः क्षुद्रकः क्षुद्रसंयुतः कौलीने वादिको जाते जातो जातात्परो मतः । तस्करे चोरटश्चोर-चौरौ पाटच्चरान्वितः पटच्चस्चौरकर्म चौर्यं चोरिका स्तेनवत् । स्तेयं स्तैन्यं, हृतधने, लोप्नं लोत्रं च लोद्रकम्
॥ २९॥ मन्दे त्वलस आलस्यश्चतुरे दक्ष-दक्षिणौ । उष्णकोष्णौ, दातरि, तु स्यादुदारोऽनुदारयुक्
॥ ३०॥ बहुप्रदे स्थूललक्षः स्थूललक्ष्योऽपि यान्तिमः । दानेंहतिरंहितिश्च प्रादेशन-प्रदेशने निर्वापणं निर्वपणं, याचके तु वनीपकः । वनीयक-वनबकौ, प्रार्थनायां तु याचना
॥३२॥
॥ २७॥
॥ २८ ॥
॥ ३१ ॥
૧૯૦
For Private And Personal Use Only