________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| १३२॥
॥ १३३॥
|| १३४ ॥
॥१॥
॥ २॥
केलिकिल: कैलिकिलो, विलासिनि जने पुनः । हेलिहिलो हैलिहिलः, आर्ये मारिष-मार्षको चेटी-नीचा-सखीह्वाने हण्डे हले हलाव्ययाः । अत्तिकाऽप्यन्तिका ज्येष्ठभगिन्यां, मातरि स्मृता अम्बिकाऽप्यंविका, भट्टारक-भट्टौ तु पूज्यगात् । नाम्नः प्रयोज्यौ प्रायेण नाट्योक्तौ नाट्यवाचकाः
।तृतीयः काण्डः । पुंसि पूरुष-पुरुषौ पुलषो ना नरोऽपि च । मनुष्यो मानुषो मर्यो मर्तोऽपि, बालिशः शिशी बालः क्षीरात् कण्ठ: पश्च स्तनयः सस्तनन्धयः । कुमार-कुमरौ दह-दहरावथ शैशवे बाल्यवद् बालिमा पाकं पाकिमा ना, वयस्यके। युवा युवानस्तरुणस्तलुनश्चाथ यौवनम् यौवनिकापि तारुण्ये, स्थविरे तु जरन् जरी । जरन्तश्च जीन-जीर्णावतिवृद्धे दशम्ययम् दशमीस्थोऽथ संस्तान्तः प्राज्ञो ज्ञः प्रज्ञकः कविः । कवी स्त्री कविता काव्यो वैदुषो विदुषस्तथा विद्वांश्च शूरि-सूरी तु, सूर्येऽपि, बुद्धयुग् बुधः । प्रवीणे निष्ण-निष्णातौ नदीष्णः कृतकृत्यकः कृती कृतार्थश्च विज्ञोऽभिज्ञो वैज्ञानिकोऽपि च । विदग्धे छेक-च्छेकालौ छेकिलश्च कलाविदि कलाज्ञश्च कलज्ञोऽपि, क्षुण्ण: संस्कृतवाचकः । तृतीयवर्गप्रान्त्याप्तो, वक्नुर्वग्नु-वचक्नुको
॥
३
॥
॥४॥
॥६॥
॥७
॥
॥
८
॥
૧૮૮
For Private And Personal Use Only