________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः । बाष्पेऽश्वस्तू अस्रमश्रं, चित् तान्ता चेतना, मतौ धीधींदा प्रतिपत्तिश्च प्रतिपच्छेमुषी पुनः । तालव्यादिर्मूर्धन्यान्ता, लज्जायां स्यादपत्रपा त्रपा ही हीकया ह्रीका, व्रीडा व्रीडो, मन:खिदि । सादाऽवसादौ, निद्रायां, तन्द्रिस्तन्द्रीच तन्द्रया तन्द्रयमी चत्वारः शब्दाः स्युर्मोहाऽऽलस्ययोरपि । औत्सुक्य उत्कण्ठौत्कण्ठ्ये, आकारस्य तु गूहने कुटारिका कटिकावाद, ह्लाद मोदः प्रमोदयुक् । मुदाऽऽमोदौ प्रमदश्च संमदोऽपि मदो मुदा हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ । गर्वेऽभिमान - मानौ च विस्मयः स्मय इत्युभौ तद्विशेषेऽहं पूर्वा-पूर्विका प्रथमिकाऽग्रिकाः । व्यायामे तु क्लम-क्लमी परिश्रम - श्रमावपि चिन्तायां चिन्तिया ध्यानं ध्याम नान्तं नपुंसके । प्रतिचिकीर्षारूपे तु ध्याने मर्ष आमर्षक:
चित्तस्थैर्ये मनस्कारो भवेद् मनसिकारयुक् । संभ्रमे त्वरया तूर्णिस्त्वरिस्तर्के वितर्ककः संवेगावेगाव हे परामर्शो विमर्शनम् । मृत्यौ मृतिः सर्वगे मरि-मारी मरकोऽपि च नटे भारत - भरतौ तथा भरतपुत्रकः । स्त्रीवेषधारकनटे भ्रकुंसः सभ्रुकुंसकः भ्रूकुंसश्च भृकुंसोऽपि, केलीकिलो विदूषके । केलिकिलो वासन्तिक - वसन्तकौ च हासिनि
१८७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १२० ॥
॥ १२१ ॥
॥ १२२ ॥
।। १२३ ।।
।। १२४ ।।
॥ १२५ ॥
॥ १२६ ॥
॥ १२७ ॥
॥ १२८ ॥
॥ १२९ ॥
॥ १३० ॥
॥ १३१ ॥