________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८४॥
।। ८५ ॥
॥८६॥
॥ ८७॥
॥ ८८॥
॥ ८९ ॥
हिमा हैमवतीयुक्ता विकराला करालिका । महारौद्री सरौद्रीका जयन्ती विजया जया महाजया नन्दयन्ती नन्दिनी नन्दयाऽन्विता। सुनन्दा कुला नकुली, भैरव्यां चर्ममुण्डिका चामुण्डा चण्डमुण्डा च चर्चा चर्चिः सचिका। स्कन्दे गाङ्गायनिर्गाङ्गो गाङ्गेयो भीष्मकेऽप्यमी भृङ्गिगणे भृङ्गिरिटि गिरीटिश्च, तण्डुके । नन्दीश-नन्दिनौ नन्दिः, कमने क-कवी विधि: विधा वेधाश्च द्वौ सान्तौ सर्वविद्-विदुषोरपि । विरिश्चन-विरिञ्ची च विरिञ्चः परमेष्ठियुक् परमेष्ठस्त्रिकवर्गद्वितीयकलितावमू । नाभिभूर्नाभिजन्मा च विश्वसृट् विश्वसृक् तथा द्रुहिणो द्रुघणस्तद्वद् द्रुघनोऽपि च शम्भुयुक् । स्वयंभूरथ गोविन्दे नारायण-नरायणौ विष्वक्सेनो विश्वक्सेनो वृषाकपि-कपी विधुः । वेधा मुकुन्द-कुन्दौ च वासुदेवश्च वासुयुक् जलेशयो जलशयोऽधोक्षजोऽक्षज एकपात् । त्रिपाद् द्विपद् एतद्वद् वृषाक्षः सुवृषोऽपि च कपिलो भद्रकपिल: सुभद्रो वासुभद्रकः। धन्वी सुधन्वा शतकः शतादाऽऽनन्द-वीरको श्रीवत्साङ्कश्च श्रीवत्सस्तदरौ मेन्द-मैन्दको । कालीय: कालियश्चास्य गदा कौमोदकी स्मृता कौपोदकी कौवोदकी, कृष्णमातरि देवकी। दैवकी, बलभद्रे तु, भद्राङ्गो बलिना बल:
।। ९० ॥
॥ ९१ ॥
॥९२॥
॥ ९३ ॥
॥ ९४॥
॥ ९५ ॥
૧૮૪
For Private And Personal Use Only