________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७२ ॥
।। ७३ ॥
।। ७४ ॥
॥ ७५ ।।
॥ ७६ ॥
॥ ७७॥
शङ्कावश्रपोऽन्तर्दन्त्योपि, हनुषो हनूषवत् । रात्रिचरो रात्रिचरो, नृचक्षाः ख्याश्च चक्षसा त्रय: सान्ता अन्त्यषण्ढाः, कव्यात् क्रव्यादसंयुतः । जातुधानो यातुधानो जातु यातु च षण्ढको कर्बुरः कर्बरो रक्षः राक्षसोऽप्याशराऽऽशिरौ । तज्जनन्यां तु निकसा निकषा खषया सह वरुणे याद:पतियुक् यादसांपतिरप्पतिः । अपांपतिर्धनदे त्वैडविडैलविलौ समौ कैलासौका मध्यदन्त्यो नराद् वाहण-वाहनौ । तद्विमानं पुष्पकं स्याद् मूर्द्धन्यौष्ठ्यकयोगयुक् वस्वोकसारा तत्पुर्यामोकःशब्दे सलोपभाक् । वित्ते ऋक्थं रिक्थमृतं रिक्त: सान्तं नपुंसके सारोऽस्त्रियां निधाने तु शेवधिर्नर-षण्ढभाक् । शङ्करे जोटी जोटीङ्गो गिरीशो गिरिशो हर: हीर ईशान ईशश्च वामदेवश्च वामयुक् । अहिर्बुध्नो बुध्नकाही महाकाल: सकालक: भर्गो भार्गो भर्यः शर्व-सौं महेश्वरेश्वरौ । भीम-भीष्मौ च, तच्चापे, त्वजकावमजीजकम् अजगावमाजगवं भवेदजकवं तथा। अजगवं, गणेष्वस्य, पार्षद्याः पार्षदा अपि पारिषद्याः पारिषदा, मृडान्यामीश्वरेश्वरी । कैटभी कैटभा दुर्गा दुर्गमा वरदा वरा अपर्णा चैकपर्णायुग् गौरी गौरा शिवी शिवा । भद्रकाली महाकाली काली काला च कालिका
।। ७८ ॥
॥ ७९ ॥
॥ ८० ॥
॥ ८१ ॥
॥ ८२ ॥
॥ ८३ ॥
१८3
For Private And Personal Use Only