________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६० ॥
॥ ६१ ॥
॥६२ ।।
।। ६३॥
॥६४॥
||६५ ॥
नान्तौ सुत्रामा सूत्रामा हर्यश्वो हरिमान् हरिः । बिडोजाः स्याद् बिडौजाश्च सन्तौ, वृत्रश्च वृत्रहा पर्जन्य: पूर्ववन्नान्तो वृषा दन्त्यद्वयान्वितः । तालव्यद्वयवानाद्यतालव्यश्च तृतीयकः शुनाशीरः स्मृतेन्द्राण्यां महेन्द्राणी सची शची। शचिर्वासवौ जयन्तः जयदत्तो जयस्तथा इन्द्रपुत्र्यां ताविषी स्याद् वात्यायां च तविष्यपि । इन्द्रहस्तिन्यैरावण, ऐरावतः, ऋजौ धनौ इन्द्रस्य रोहितं स्याद् रोहितं पारिभद्रके। मन्दार-मन्दरौ तद्वद्, मन्दारुश्च, पवौ शृणिः सृणिश्च वह्रावप्येतो, भिदिरं भिदुरं भिदुः । भिदि-भेदी दिभिः शम्ब-सम्बौ शाम्बः शतारक: धारः शित-शतात्, वज्रोऽस्त्रियां वज्राशनिर्द्वयोः । अशनिर्द्वयोराशनः, स्वार्थे प्रज्ञाद्यणा, शरु: स्वरु-श्वरू उदन्तौ द्वौ स्वरुः सान्तोऽथ षण्ढके। व्याधाम नान्तं, व्याधामोऽदन्तः पुंसि च, दस्रयोः अश्विनावाऽश्विनेयौ च, देवत्वष्टरि विश्वकृत् । विश्वकर्मापि, स्वर्वध्वां, वा स्त्री भूम्न्यप्सरा मता ऊर्वसी दीर्घ-हस्वादिर्दन्त्य-तालव्यभाक् क्रमात् । गन्धर्वो गायने दैवे गान्धर्वोऽपि च तद्भिदि अव्ययाऽनव्ययौ हाहा हाहाः सान्तोऽप्यथो हहाः । हुहुद्विहस्वो हूहूश्च द्विदीर्घोऽव्ययमप्यथो हाहाहूहूरित्यखण्डं, नामैके, शमने यमः । यमराजो यमराट् च, संयमनी त्र्यकारयुक्
॥६६॥
॥६७॥
॥ ६८॥
॥ ६९॥
॥ ७० ॥
॥७१ ॥
૧૮૨
For Private And Personal Use Only